Share This:

सबिन्दुसिन्धुसुस्खलत् तरङ्ग भङ्गरञ्जितं
द्विषत्सुपापजातजातकारिवारिसंयुतम् ।
कृतान्तदूत कालभूत भीतिहारि वर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १ ॥

त्वदम्बुलीन दीन मीन दिव्य सम्प्रदायकं
कलौमलौघ भारहारि सर्वतीर्थनायकम् ।
सुमत्स्यकच्छ नक्रचक्र चक्रवाक शर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २ ॥

महागभीर नीरपूर पापधूत भूतलं
ध्वनत्ससमस्त पातकारि दारितापदाचलम् ।
जगल्लये महाभये मृकण्डुसुनूहर्म्यदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनका सुरारिसेविसर्वदा ।
पुनर्भवाब्धि जन्मजंभवाब्धि दुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४ ॥

अलक्षलक्ष किन्नरामरासुरादिपूजितं
सुलक्षनीर तीरधीर पक्षिलक्षकूजितम् ।
वसिष्ठसिष्ट पिप्पलादि कर्दमादिशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५ ॥

सनत्कुमार नाचिकेत कश्यपादिषट्पदैः
धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६ ॥

अलक्षलक्ष लक्षपापलक्ष सायरसायुधं
ततस्तु जीवजन्तुतन्तु भुक्तिमुक्तिदायकम् ।
विरश्र्चिविष्णुशङ्कर स्वकीय धामवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७ ॥

अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतवाडवेषु पण्डिते शठे नटे ।
दुरन्तपापतापहारि सर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८ ॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।
सुलभ्य देहदुर्लभं महेंशधाम गौरवम्
पुनर्भवा न वै नरा विलोकयन्ति रौरवम् ॥ ९ ॥

॥ इति श्रीमत् आद्यशङ्कराचार्यविरचितं नर्मदाष्टकं सम्पूर्णम् ॥