श्रीगणेशाय नमः ॥
स्कंदो गुहः षण्मुखश्र्च भालनेत्रसुतः प्रभुः ।
पिङ्गलः कृतिकासूनुः शिखिबाहो द्विषड्भुजः ॥ १ ॥
द्विषड्नेत्रः शक्तिधरः पिशिताशप्रभञ्जनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः ॥ २ ॥
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥ ३ ॥
उमासुतः शक्तिधरः कुमारः क्रौञ्चदारण: ।
सेनानीरग्निजन्मा च विशाखः शङ्करात्मजः ॥ ४ ॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनंतशक्तिरक्षोभ्यः पार्वतीप्रियनंदनः ॥ ५ ॥
गङ्गासुतः शरोद्भूत आहूतः पावतात्मजः ।
जृम्भः प्रजृम्भः उज्जृम्भः कमलासनसंस्तुतः ॥ ६ ॥
एकवर्णो द्विवर्णश्र्च त्रिवर्णः सुमनोहरः ।
चतुर्वर्णः पञ्चवर्णः प्रजापतिरहर्षतिः ॥ ७ ॥
अग्निगर्भः शमीगर्भो विश्र्वरेताः सुरारिहा ।
हरिद्वर्णः शुभकरो बटुश्र्च पटुवेषभृत् ॥ ८ ॥
पूषा गभस्तिर्गहनश्र्चंद्रवर्णः कलाचरः ।
मायाधरो महामायी कैवल्यः शङ्करात्मजः ॥ ९ ॥
विश्र्वयोनिरमेयात्मा तेजोनिधिरनामयः ।
परमेष्टी परब्रह्मा वेदगर्भो विराटसुतः ॥ १० ॥
पुलिंदकन्याभर्ता च महासारस्वतावृतः ।
आश्रिताखिलदाता च रोगघ्नो रोगनाशनः ॥ ११ ॥
अनंतमूर्तिरानंदः शिखंडिकृतकेतनः ।
डम्भः परमडम्भश्र्च महाडम्भो वृषाकपिः ॥ १२ ॥
कारणोत्पत्तिदेहश्र्च कारणानीतविग्रहः ।
अनीश्र्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ १३ ॥
विरुद्धहंता वीरघ्नो रक्तश्यामगलोऽपि च ।
सुब्रह्मण्यो गुहः प्रीतो ब्राह्मण्यो ब्राह्मणप्रियः ।
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥ १४ ॥ ॥
इति श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
