ॐ नमो महादेवाय
बाणासुर उवाच
महेश्र्वर महाभाग कवचं यत् प्रकाशितम् ।
संसारपावन नाम कृपया कथय प्रभो ॥ १ ॥
महेश्र्वर उवाच
श्रृणु वक्ष्यामि हे वत्स ! कवचं परमाद्भुतम् ।
अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥ २ ॥
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च ।
ममैवेदं च कवचं भक्त्या यो धारयेत् सुधीः ॥ ३ ॥
जेतुं शक्नोति त्रैलोक्यं भगवानिव लीलया ॥ ४ ॥
संसारपावनस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्र्च गायत्री देवोऽहं च महेश्र्वरः ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५ ॥
पञ्चलक्षजपेनैव सिद्धिदं कवचं भवेत् ॥ ६ ॥
यो भवेत् सिद्धकवचो मम तुल्यो भवेद् भुवि ।
तेजसा सिद्धियोगेन तपसा विक्रमेण च ॥ ७ ॥
शम्भुर्मे मस्तकं पातु मुखं पातु महेश्र्वरः ।
दन्तपंक्तिं च नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ॥ ८ ॥
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः ।
वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥ ९ ॥
सर्वाङ्गं पातु विश्र्वेशः सर्वदिक्षु च सर्वदा ।
स्वप्ने जागरणे चैव स्थाणुमें पातु संततम् ॥ १० ॥
इति ते कथितं बाण कवचं परमाद्भुतम् ।
यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ॥ ११ ॥
यत् फलं सर्वतीर्थानां स्नानेन लभते नरः ।
तत् फलं लभते नूनं कवचस्यैव धारणात् ॥ १२ ॥
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १३ ॥
॥ इति श्रीब्रह्मवैवर्तपुराणे संसारपावनं नाम शंकरकवचं संपूर्णम् ॥
