प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां
सद्रत्नवन्मकरकुण्डलहारभूषाम् ।
दिव्यायुधोर्जितसुनीलशस्रहस्तां
रक्तोत्पलाभचरणां भवतीं परेशाम् ॥ १ ॥
प्रातर्नमामि महिषासुरचण्डमुण्ड
शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां
चण्डीं समस्तसुरमूर्तिमनेकरुपाम् ॥ २ ॥
प्रातर्भजामि भजतामभिलाषदात्रीं
धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारबन्धनविमोचनहेतुभूतां मायां
परां समधिगम्य परस्य विष्णोः ॥ ३ ॥
॥ इति श्रीदेव्याः प्रातःस्मरणं सम्पूर्णम् ॥
श्रीदेव्याः प्रातःस्मरणम् || Devotional ||
