अध्याय ४९

श्रीगणेशाय नमः ॥
श्रीसरस्वत्यै नमः ॥
श्रीगुरुभ्यो नमः ॥

नामधारक शिष्य सगुण । लागे सिद्धाच्या चरणा ।
विनवीतसे सुलक्षणा । करी नमस्कार अष्टांगें ॥ १ ॥

जयजया जी सिद्धमुनि । तूं राजयोगी ब्रह्मज्ञानी ।
गुरुचरित्र दाविलें नयनीं । कृपासागरा गुरुमूर्ति ॥ २ ॥

स्वामी निरोपिले सकळ धर्म । त्याणें झालें निःशेष कर्म ।
साध्य झालें परावर्म । तुझिये कृपें दातारा ॥ ३ ॥

श्र्लोकः अनादिघोर संसार-ध्वांतध्वंसैकहेतवे । नमः श्रीनाथवैद्याय, भवौषधविधायिने ॥
संसारसागर पहातां । अनादि नाहीं आदिअंता ।
महाघोर मलबद्धता । उत्तीर्णता नाहीं याकारणें ॥ ४ ॥

म्हणोनि शरण रिघावें । तो तारक या भवार्णवा पहावें ।
औषध घ्यावें मनोभावें । आरोग्य होय तात्काळीं ॥ ५ ॥

ऐसा आगमनिगमसिद्धान्त । बोलताति बुद्धिवंत ।
युगायुगीं फिरत जात । या संसारसागरीं ॥ ६ ॥

गुरुभक्ति म्हणिजे कामधेनु । जे आचरती विद्वज्जनु ।
वसिष्ठादि शुकमुनि । सारज्ञ जे शास्त्रांचे ॥ ७ ॥

ईश्र्वरपार्वतीसंवाद । कथा निर्मळ अति विनोद ।
तें आचरती मुक्तिपद । हा मार्ग सद्गुरुचा ॥ ८ ॥

पार्वती पुशिलें ईश्र्वराप्रती । ईश्र्वरें सांगितलें कवणें रीतीं ।
जेणे लोक उद्धरती । तें निरोपावें दातारा ॥ ९ ॥

शिष्यप्रश्र्न ऐकोनि । संतोष पावला सिद्धमुनि ।
धन्य धन्य तुझें जीवनी । गुरुसेवातत्पर बाळका ॥ १० ॥

तुवां पुसिलें अनादि कथन । जेणें होय मोहशमन ।
अज्ञानपण सांडोनि दृढ मन । सूर्यप्रकाश जेवीं लोकांसी ॥ ११ ॥

ऐक वत्सा गुरुदास्यका । भला केला तुवां प्रश्र्न निका ।
सांगेन आतां कुळदीपका । एकचित्तें अवधारीं ॥ १२ ॥

पूर्वी कैलासशिखरीं बैसला होता त्रिपुरारि ।
प्रश्र्न करी शैल्यकुमरी । समस्त लोक उद्धरावया ॥ १३ ॥

श्रीगुरुगीता प्रारंभः

ॐ अस्य श्रीगुरुगीतास्तोत्रमंत्रस्य भगवान् सदाशिव ऋषिः । नानाविधानि छंदांसि ।
श्रीगुरुपरमात्मा देवता । हं बीजं । सः शक्तिः । क्रों कीलकं । श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

अथ करंन्यासाः ॥
ॐ हं सां सूर्यात्मने अगुष्ठाभ्यां नमः । ॐ हं सीं सोमात्मने तर्जनीभ्यां नमः ।
ॐ हं सूं निरंजनात्मने मध्यमाभ्यां नमः । ॐ हं सैं निराभासात्मने अनामिकाभ्यां नमः ।
ॐ हं सौं अतनुसूक्ष्मात्मने कनिष्ठिकाभ्यां नमः । ॐ हं सः अव्यक्तात्मने करतलकरपृष्ठाभ्यां नमः ।

अथ हृदयादिन्यासाः
ॐ हं सां सूर्यात्मने हृददयाय नमः । ॐ हं सीं सोमात्मने शिरसे स्वाहा ।
ॐ हं सूं निरंजनात्मने शिखायै वषट् । ॐ हं सैं निराभासात्मने कवचाय हुं ।
ॐ हं सौं अतनुसूक्ष्मात्मने नेत्रत्रयाय वौषट् । ॐ हं सः अव्यक्तात्मने अस्त्राय फट् ।
ॐ ब्रह्म भुर्भूवः स्वरोमिति दिग्बन्धः ।

अथ ध्यानं
हंसाभ्यां परिवृत्तपत्रकमलैदिव्यैर्जगत्कारणैर्विश्र्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया ।
तद्योतं पदशांभवं तु चरणं दीपांकुरग्राहिणं । प्रत्याक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्र्वतम् ॥ १ ॥

मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

सूत उवाच
कैलासशिखरे रम्ये, भक्तिसंधान-नायकं ।
प्रणम्य पार्वती भक्त्या, शंकरं पर्यपृच्छत ॥ १ ॥

श्रीदेव्युवाच ॐ नमो देवदेवेश, परात्पर जगद्गुरो ।
सदाशिव महादेव, गुरुदीक्षां प्रदेहि मे ॥ २ ॥

केन मार्गेण भो स्वामिन्, देही ब्रह्मयो भवेत् ।
त्वां कृपां कुरु मे स्वामिन्, नमामि चरणौ तव ॥ ३ ॥

ईश्र्वर उवाच ममरुपासि देवि त्वं, त्वत्प्रीत्यर्थं वदाम्यहम् ।
लोकोपकारक प्रश्र्णो, न केनापि कृतः पुरा ॥ ४ ॥

दुर्लभं त्रिषु लोकेषु, तच्छृणुष्व वदाम्यहम् ।
गुरुं विना ब्रह्म नान्यत्, सत्यं सत्यं वरानने ॥ ५ ॥

वेदशास्त्रपुराणानि, इतिहासादिकानि च ।
मंत्रयंत्रादिविद्याश्र्च, स्मृतिरुच्चाटनादिकम् ॥ ६ ॥

शैवशाक्तागमादीनि, अन्यानि विविधानि च ।
अपभ्रंशकराणीह, जीवानां भ्रांतचेतसाम् ॥ ७ ॥

यज्ञो व्रतं तपो दानं, जपस्तीर्थं तथैव च ।
गुरुतत्त्वमविज्ञाय, मूढास्ते चेरते जनाः ॥ ८ ॥

गुरुबुद्ध्यात्मनो नान्यत्, सत्यं सत्यं न संशयः ।
तल्लाभार्थं प्रयत्नस्तु, कर्तव्यो हि मनीषिभिः ॥ ९ ॥

गूढविद्या जगन्माया, देहे चाज्ञानसंभवा ।
उदयः स्वप्रकाशेन, गुरुशब्देन कथ्यते ॥ १० ॥

सर्वपापविशुद्धात्मा, श्रीगुरोः पादसेवनात् ।
देही ब्रह्म भवेद्यस्मात्, तत्कृतार्थं वदामि ते ॥ ११ ॥

गुरुपादांबुजं स्मृत्वा, जले शिरसि धारयेत् ।
सर्वतीर्थावगाहस्य, संप्राप्नोति फले नरः ॥ १२ ॥

शोषणं पापपङ्कस्य, दीपनं ज्ञानतेजसाम् ।
गुरुपादोदकं सम्यक्, संसारार्णवतारकम् ॥ १३ ॥

अज्ञानमूलहरणं, जन्मकर्मनिवारणम् ।
ज्ञानवैराग्य सिद्ध्यर्थं, गुरुपादोदकं पिबेत् ॥ १४ ॥

गुरोः पादोदकं पीत्वा, गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं, गुरुमंत्रं सदा जपेत् ॥ १५ ॥

काशीक्षेत्रं तन्निवासो, जान्हवी चरणोदकम् ।
गुरुर्विश्र्वेश्र्वरः साक्षात्, तारकं ब्रह्म निश्र्चितम् ॥ १६ ॥

गुरोः पादोदकं यत्तु, गयाऽसौसोऽक्षयो वटः ।
तीर्थराजः प्रयागश्र्च, गुरुमूर्ते नमो नमः ॥ १७ ॥

गुरुमूर्ति स्मरेन्नित्यं, गुरुनाम् सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत, गुरोरन्यन्न भावयेत् ॥ १८ ॥

गुरुवक्त्रस्थितं ब्रह्म, प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात्, कुलस्त्री स्वपतेर्यथा ॥ १९ ॥

स्वाश्रमं च स्वजातिं च, स्वकीर्तिपुष्टिवर्धनम् ।
एतत्सर्वं परित्यज, गुरोरन्यन्न भावयेत् ॥ २० ॥

अनन्याश्र्चिन्तयन्तो मां, सुलभं परमं पदम् ।
तस्मात्सर्वप्रयत्नेन, गुरोराराधनं कुरु ॥ २१ ॥

त्रैलोक्यस्फुटवक्तारो, देवाद्यसुरपन्नगाः ।
गुरुवक्रस्थिता विद्या, गुरुभक्त्या तु लभ्यते ॥ २२ ॥

गुकारस्त्वन्धकारश्र्च, रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म, गुरुरेव न संशयः ॥ २३ ॥

गुकारः प्रथमो वर्णो, मायादिगुणभासकः ।
रुकारो द्वितीयो ब्रह्म, मायाभ्रान्तिविनाशनम् ॥ २४ ॥

एवं गुरुपदं श्रेष्ठं, देवानामपि दुर्लभम् ।
हाहाहूहूगणैश्र्चैव, गंधर्वैश्र्च प्रपूज्यते ॥ २५ ॥

ध्रुवं तेषां च सर्वेषां, नास्ति तत्त्वं गुरोः परम् ।
आसनं शयनं वस्त्रं, भूषणं वाहनादिकम् ॥ २६ ॥

साधकेन प्रदातव्यं, गुरुसंतोषकारकम् ।
गुरोराराधनं कार्यं, स्वजीवित्वं ननिवेदयेत् ॥ २७ ॥

कर्मणा मनसा वाचा, नित्यमाराधयेद्गुरुम् ।
दीर्घदण्डं नमस्कृत्य, निर्लज्जो गुरुसन्निधौ ॥ २८ ॥

शरीरमिन्द्रियं प्राणं, सद्गुरुभ्यो निवेदयेत् ।
आत्मदारादिकं सर्वं, सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥

कृमिकीटकभस्मविष्ठा-दुर्गन्धिमलमूत्रकम् ।
श्र्लेष्म-रक्तं त्वचा मासं वचयेन्न वरानने ॥ ३० ॥

संसारवृक्षमारुढाः पतन्तो नरकार्णवे ।
येन चैवोद् धृताः सर्वे, तस्मै श्रीगुरवे नमः ॥ ३१ ॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्र्वरः ।
गुरुरेव परब्रह्म, तस्मै श्रीगुरवे नमः ॥ ३२ ॥

हेतवे जगतामेव, संसारार्णवसेतवे ।
प्रभवे सर्व विद्यानां शंभवे गुरवे नमः ॥ ३३ ॥

अज्ञानतिमिरांधस्य, ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥ ३४ ॥

त्वं पिता त्वं च मे माता, त्वं बंधुस्त्वं च देवता ।
संसारप्रतिबोधार्थं, तस्मै श्रीगुरवे नमः ॥ ३५ ॥

यत्सत्येन जगत्सत्यं, यत्प्रकाशेन भाति तत् ।
यदानंदेन नंदन्ति, तस्मै श्रीगुरवे नमः ॥ ३६ ॥

यस्य स्थित्वा सत्यमिदं, यद्भाति भानुरुपतः ।
प्रियं पुत्रादि यत्प्रीत्या, तस्मै श्रीगुरवे नमः ॥ ३७ ॥

येन चेतयते हीदं, चित्तं चेतयते न यम् ।
जाग्रत्स्वप्नसुषुप्त्यादि, तस्मै श्रीगुरवे नमः ॥ ३८ ॥

यस्य ज्ञानादिदं विश्र्वं, न दृश्यं भिन्नभेदतः ।
सदेकरुपरुपाय, तस्मै श्रीगुरवे नमः ॥ ३९ ॥

‘ यस्यामतं तस्य मतं, मतं यस्य न वेद सः ‘ ।
अनन्यभावभावाय, तस्मै श्रीगुरवे नमः ॥ ४० ॥

यस्य कारणरुपस्य, कार्यरुपेण भाति यत् ।
कार्यकारणरुपाय, तस्मै श्रीगुरवे नमः ॥ ४१ ॥

नानारुपमिदं सर्वं, न केनाप्यस्ति भिन्नता ।
कार्यकारणता चैव, तस्मै श्रीगुरवे नमः ॥ ४२ ॥

यदंघ्रिकमलद्वंद्वं द्वद्वतापनिवारकं ।
तारकं सर्वदाऽऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम् ॥ ४३ ॥

शिवे कृद्धे गुरुस्त्राता, गुरौ क्रुद्धे शिवो न हि ।
तस्मात्सर्वप्रयत्नेन, श्रीगुरुं शरणं व्रजेत् ॥ ४४ ॥

वन्दे गुरुपदद्वंद्वं, वाङ्मनश्र्चित्तगोचरं ।
श्र्वेतरक्तप्रभाभिन्नं, शिवशक्त्यात्मकं परम् ॥ ४५ ॥

गुकारं च गुणातीतं, रुकारं रुपवर्जितम् ।
गुणातीतस्वरुपं च, यो दद्यात्स गुरुः स्मृतः ॥ ४६ ॥

अ-त्रिनेत्रः सर्वसाक्षी, अ-चतुर्बाहुरच्युतः ।
अ-चतुर्वदनो ब्रह्मा, श्रीगुरुः कथितः प्रिये ॥ ४७ ॥

अयं मयाञ्जलिर्बद्धो, दयासागरवृद्धये ।
यदनुग्रहतो जन्तुश्र्चित्रसमसारमुक्तिभाक् ॥ ४८ ॥

श्रीगुरोः परमं रुपं, विवेकचक्षुषोऽमृतम् ।
मन्दभाग्या न पश्यन्ति, अन्धाः सूर्योदयं यथा ॥ ४९ ॥

श्रीनाथचरणद्वंद्वं, यस्यां दिशी विराजते ।
तस्यै दिशे नमस्कुर्याद्भक्त्या प्रतिदिनं प्रिये ॥ ५० ॥

तस्यै दिशे सततमञ्जलिरेष आर्ये, प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्र्च ।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती, विश्र्वोदप्रलयनाटकनित्यसाक्षी ॥ ५१ ॥

श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं,
सिद्धौघं बटुकत्रयं पदयुगं दूतीत्रयं शांभवम् ।
वीरेशाष्टचतुष्कपष्टिनवकं वीरावलीपश्र्चकं,
श्रीमन्मालिनिमंत्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ ५२ ॥

अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः,
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् ;
प्राप्तुं तत्सहज स्वभावनिशं सेवध्वमेकं गुरुम् ॥ ५३ ॥

स्वदेशिकस्यैव शरीरचिन्तनं, भवेदनन्तस्य शिवस्य चिन्तनम् ।
स्वदेशिकस्यैव च नामकीर्तनं, भवेदनन्तरस्य शिवस्य कीर्तनम् ॥ ५४ ॥

यत्पादरेणुकणिका, कापि संसारवारिधेः ।
सेतुबंधायते नाथं, देशिकं तमुपास्महे ॥ ५५ ॥

यस्मादनुग्रहं लब्ध्वा, महदज्ञानमुत्सृजेत् ।
तस्मै श्रीदेशिकेंद्राय, नमश्र्चाभीष्टसिद्धये ॥ ५६ ॥

पादाब्जं सर्वसंसार-दावानलविनाशकं ।
ब्रह्मरंध्रे सिताम्भोज-मध्यस्थं चन्द्रमण्डले ॥ ५७ ॥

अकठादित्रिरेखाब्जे-सहस्त्रदल मण्डले ।
हंसपार्श्र्वत्रिकोणे च, स्मरेत्तन्मध्यगं गुरुम् ॥ ५८ ॥

सकलभुवनसृष्टिः कल्पिताशेषपुष्टि -निखिलनिगमदृष्टिः संपदा व्यर्थ दृष्टिः ।
अवगुणपरिमार्ष्टिस्तपदार्थैकदृष्टि- -र्भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ ५९ ॥

सकलभुवनरंगस्थापनास्तंभयष्टिः । सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिः सच्चिदानंददृष्टि-निंवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ ६० ॥

अग्निशुद्धसमंतात, ज्वालापरिचकाधिया ।
मंत्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ॥ ६१ ॥

तदेजति तन्नैजति, तद्दूरे तत्समीपके ।
तदनन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ६२ ॥

अजोऽहमजरोऽहं च, अनादिनिधनः स्वयम् ।
अविकारश्र्चिदानन्द, अणीयान्महतो महान् ॥ ६३ ॥

अपूर्वाणां परं नित्यं, स्वयंज्योतिर्निरामयम् ।
विरजं परमाकाशं, ध्रुवमानन्दमव्ययम् ॥ ६४ ॥

श्रुतिः प्रत्यक्षमैतिह्य-मनुमानश्र्चतुष्ट्ययम् ।
यस्य चात्मतपो वेद, देशिकं च सदा स्मरन् ॥ ६५ ॥

मननं यद्भवं कार्यं, तद्वदामि महामते ।
साधुत्वं च मया दृष्ट्वा, त्वयि तिष्ठति सांप्रतम् ॥ ६६ ॥

अखण्डमण्डलाकारं, व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन, तस्मै श्रीगुरवे नमः ॥ ६७ ॥

सर्वश्रुतिशिरोरत्न-विराजितपदांबुजः ।
वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ ६८ ॥

यस्य स्मरणमात्रेण, ज्ञानमुत्पद्दते स्वयम् ।
य एव सर्वसंप्राप्तिस्तस्मै श्रीगुरवे नमः ॥ ६९ ॥

चैत्यनं शाश्र्वतं शान्तं, व्योमातीतं निरंजनम् ।
नादबिंदुकलातीतं, तस्मै श्रीगुरवे नमः ॥ ७० ॥

स्थावरं जंगमं चैव, तथा चैव चराचरम् ।
व्याप्तं येन जगत्सर्वं, तस्मै श्रीगुरवे नमः ॥ ७१ ॥

ज्ञानशक्तिसमारुढस्तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदातायस्, तस्मै श्रीगुरवे नमः ॥ ७२ ॥

अनेकजन्मसंप्राप्त-सर्वकर्मविदाहिने ।
स्वात्मज्ञानप्रभावेण, तस्मै श्रीगुरवे नमः ॥ ७३ ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वं ज्ञानात्परं नास्ति, तस्मै श्रीगुरवे नमः ॥ ७४ ॥

मन्नाथः श्रीजगन्नाथो, मद्गुरुस्त्रिजगद्गुरुः ।
ममात्मा सर्वभूतात्मा, तस्मै श्रीगुरवे नमः ॥ ७५ ॥

ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोः पदम् ।
मंत्रमूलं गुरोर्वाक्यं, मोक्षमूलंगुरोः कृपा ॥ ७६ ॥

गुरुरादिरनादिश्र्च, गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति, तस्मै श्रीगुरवे नमः ॥ ७७ ॥

सप्तसागरपर्यंन्त-तीर्थस्नानादिकं फलम् ।
गुरोरंघ्रिपयोबिंदुसहस्रांशे न दुर्लभम् ॥ ७८ ॥

हरौ रुष्टे गुरुस्त्राता, गुरौ रुष्टे न कश्र्वन ।
तस्मात्सर्वप्रयत्नेन, श्रीगुरुं शरणं व्रजेत् ॥ ७९ ॥

गुरुरेव जगत्सर्वं, ब्रह्मविष्णुशिवात्मककम् ।
गुरोः परतरं नास्ति, तस्मात्संपूजयेद् गुरुम् ॥ ८० ॥

ज्ञानं विज्ञानसहितं, लभ्यते गुरुभक्तितः ।
गुरोः परतरं नास्ति, ध्येयोऽसौ गुरुमार्गिभिः ॥ ८१ ॥

यस्मात्परतरं नास्ति, नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव, नित्यमाराधयेद् गुरुम् ॥ ८२ ॥

गुरोः कृपाप्रसादेन, ब्रह्मविष्णुसदाशिवाः ।
समर्थाः प्रभवादौ च, कैवल्यं गुरुसेवया ॥ ८३ ॥

देवकिन्नरगंधर्वाः पितरो यक्षकिन्नराः ।
मुनयोऽपि न जानन्ति, गुरुशुश्रूषणे विधिम् ॥ ८४ ॥

महाहंकारगर्भेण, तपोविद्याबलान्विताः ।
संसारकुहरावर्ते, घटयंत्रे यथा घटाः ॥ ८५ ॥

न मुक्ता देवगंधर्वाः, पितरो यक्षकिन्नराः ।
ऋषयः सर्वसिद्धाश्र्च, गुरुसेवापराङ्मुखाः ॥ ८६ ॥

ध्यानं श्रृणु महादेवि, सर्वानंदप्रदायकम् ।
सर्वसौख्यकरं नित्यं, भुक्तिमुक्तिविधायकम् ॥ ८७ ॥

श्रीमत् परब्रह्म गुरुं स्मरामि, श्रीमत्परब्रह्म गुरुं वदामि ।
श्रीमत्परब्रह्म गुरुं नमामि, श्रीमत्परब्रह्म गुरुं भजामि ॥ ८८ ॥

ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं, द्वंद्वातीतं
गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं,
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ८९ ॥

नित्यं शुद्धं निराभासं, निराकारं निरंजनम् ।
नित्यबोधं चिदानंदं, गुरुं ब्रह्म नमाम्यहम् ॥ ९० ॥

हृदंबुजे कर्णिकमध्यसंस्थे, सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद् गुरुं चंद्रकलाप्रकाशं, चित्पुस्तकाभीष्टवरं दधानम् ॥ ९१ ॥

श्र्वेतांबरं श्रवेतविलेपपुष्पं, मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामांकपीठस्थितदिव्यशक्तिं, शासमंदस्मितं सांद्रकृपानिधानम् ॥ ९२ ॥

आनंदमानंदकरं प्रसन्नं, ज्ञानस्वरुपं निजबोधयुक्तम् ।
योगींद्रमीद्यं भवरोगवैद्यं, श्रीमद्गुरुं नित्यमहं नमामि ॥ ९३ ॥

यस्मिनसृष्टिस्थितिध्वंस-नुग्रहात्मकम् ।
कृत्यं पंचविधं शश्र्वद्भासते तं नमाम्यहम् ॥ ९४ ॥

प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराभययुतं शांतं, स्मरेत्तंनामपूर्वकम् ॥ ९५ ॥

न गुरोरधिकं, न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम्,
शिवशासनतः शिवशासनतः, शिवशासनतः शिवशासनतः ॥ ९६ ॥

इदमेव शिवं त्विदमेव शिवं, त्विदमेव शिवं त्विदमेव शिवम् ।
मम शासनतो मम शासनतो, मम शासनतो मम शासनतः ॥ ९७ ॥

एवंविधं गुरुं ध्यात्वा, ज्ञानमुत्पद्यतेस्वयम् ।
तत्सद्गुरुप्रसादेन, मुक्तोऽहमिति भावयेत् ॥ ९८ ॥

गुरुदर्शितमार्गेण, मनःशुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत्सर्वं, यत्किंचिदात्मगोचरम् ॥ ९९ ॥

ज्ञेयं सर्वस्वरुपं च, ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पंथा द्वितीयकः ॥ १०० ॥

एवं श्रुत्वा महादेवि, गुरुनिंदा करोति यः ।
स याति नरकं घोरं, यावच्चंद्रदिवाकरौ ॥ १०१ ॥

यावत्कल्पांतको देहस्तावदेव गुरुं स्मरेत् ।
गुरुलोपो न कर्तव्यः, स्वच्छंदो यदि वा भवेत् ॥ १०२ ॥

हुंकारेण न वक्तव्यं, प्राज्ञैः शिष्यैः कथंचन ।
गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥ १०३ ॥

गुरुं त्वं कृत्य हुं कृत्य, गुरुं निर्जित्य वादतः ।
अरण्ये निर्जले देशे, स भवेद् ब्रह्मराक्षसः ॥ १०४ ॥

मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि, गुरु रक्षिति पार्वति ॥ १०५ ॥

अशक्ता हि सुराद्याश्र्च, अशक्ता मुनयस्तथा ।
गुरुशापेन ते शीघ्रं, क्षयं यान्ति न संशयः ॥ १०६ ॥

मंत्रराजमिदं देवि, गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदार्थवाक्येन, गुरुः साक्षात्परं पदम् ॥ १०७ ॥

श्रुति-स्मृती अविज्ञाय, केवलं गुरुसेवकाः ।
ते वै संन्यासिनः प्रोक्ता, इतरे वेषधारिणः ॥ १०८ ॥

नित्यं ब्रह्म निराकारं, निर्गुणं बोधयेत् परम् ।
सर्वं ब्रह्म निराभासं, दीपो दीपांतरं यथा ॥ १०९ ॥

गुरोः कृपाप्रसादेन, आत्मारामं निरीक्षयेत् ।
अनेन गुरुमार्गेण, स्वात्मज्ञानं प्रवर्तते ॥ ११० ॥

आब्रह्मस्तंबपर्यंतं, परमात्मस्वरुपकम् ।
स्थावरं जंगमं चैव, प्रणमामि जगन्मयम् ॥ १११ ॥

वंदेऽहं सच्चिदानंद, भेदातीत सदा गुरुम् ।
नित्यं पूर्णं निराकारं, निर्गुणं स्वात्मसंस्थितम् ॥ ११२ ॥

परात्परतरं ध्येयं, नित्यमानंदकारकम् ।
हृदयाकाशममध्यस्थं, शुद्धस्फटिकसन्निभम् ॥ ११३ ॥

स्फटिकप्रतिमारुपं, दृश्यते दर्पणे यथा ।
तथात्मनि चिदाकार-मानदं सोऽहमित्युत ॥ ११४ ॥

अंगुष्ठमात्रपुरुषं, ध्यायतश्र्चिमयं हृदि ।
तत्र स्फुरति भावो यः, श्रृणु तं कथाम्यहम् ॥ ११५ ॥

अगोचरं तथाऽगम्यं, नामरुपविवर्जितम् ।
निःशब्दं तद्विजानीयात्, स्वभावं ब्रह्म पार्वति ॥ ११६ ॥

यथा गंधः स्वभावेन, कर्पूरकुसुमादिषु ।
शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्र्वतम् ॥ ११७ ॥

स्वयं तथाविधो भूत्वा, स्थातव्यं यत्रकुत्रचित् ।
कीटभ्रमरवत्तत्र, ध्यानं भवति तादृशम् ॥ ११८ ॥

गुरुध्यानं तथा कृत्वा, स्वयं ब्रह्ममयो भवेत् ।
पिंडे पदे तथा रुपे, मुक्तोऽसौ नात्र संशयः ॥ ११९ ॥

स्वयं सर्वमयो भूत्वा, परं तत्त्वं विलोकयेत् ।
परात्परतरं नान्यत्, सर्वमेतन्निरालयम् ॥ १२० ॥

तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम् ।
एकाकी निःस्पृहः शान्तस्तिष्ठासेत् तत्प्रसादतः ॥ १२१ ॥

लब्धं वाऽथ न लब्धं वा, स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं, सदा संतुष्टचेतसा ॥ १२२ ॥

सर्वज्ञपदमित्याहु-र्देही सर्वमयो बुधाः ।
सदानंदः सदा शान्तो, रमते यत्रकुत्रचित् ॥ १२३ ॥

यत्रैव तिष्ठते सोऽपि, स देशः पुण्यभाजनम् ।
मुक्तस्य लक्षणं देवि, तवाग्रे कथितं मया ॥ १२४ ॥

उपदेशस्तथा देवि, गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिस्तथा ध्यानं, सकलं तव कीर्तितम् ॥ १२५ ॥

अनेन यद्भवेत्कार्यं, तद्वदामि महामते ।
लोकोपकारकं देवि, लौकिकं तु न भावयेत् ॥ १२६ ॥

लौकिकात्कर्मणो यान्ति, ज्ञानहीना भवार्णवम् ।
ज्ञानी तु भावयेत्सर्वं, कर्म निष्कर्म यत्कृतम् ॥ १२७ ॥

इदं तु भक्तिभावेन, पठते श्रृणुते यदि ।
लिखित्वा तत्प्रदातव्यं, दानं दक्षिणयासह ॥ १२८ ॥

गुरुगीतात्मकं देवि, शुद्धतत्त्वं मयोदितम् ।
भवव्याधिविनाशार्थं, स्वयमेव जपेत्सदा ॥ १२९ ॥

गुरुगीताक्षरैकं तु, मंत्रराजमिमं जपेत् ।
अन्ये च विविधा मंत्राः, कलां नार्हंति षोडशीम् ॥ १३० ॥

अनंतफलमाप्नोति, गुरुगीताजपेन तु ।
सर्वपापप्रशमनं, सर्वदारिद्र्यनाशनम् ॥ १३१ ॥

कालमृत्युभयहरं, सर्वसंकटनाशनम् ।
यक्षराक्षसभूतानां, चोरव्याघ्रभयापहम् ॥ १३२ ॥

महाव्याधिहरं सर्वं, विभूतिसिद्धिदं भवेत् ।
अथवा मोहनं वश्यं, स्वयमेव जपेत्सदा ॥ १३३ ॥

कुशेर्वा दूर्वया देवि, आसने शुभ्रकंबले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ १३४ ॥

ध्येयं शुक्लं च शांत्यर्थं, वश्ये रक्तासनं प्रिये ।
अभिचारे कृष्णवर्णं, पीतवर्णं धनागमे ॥ १३५ ॥

उत्तरे शांतिकामस्तु, वश्ये पूर्वमुखो जपेत् ।
दक्षिणे मारणं प्रोक्तं पश्र्चिमे च धनागमः ॥ १३६ ॥

मोहनं सर्वभूतानां, बंधमोक्षकरं भवेत् ।
देवराजप्रियकरं, सर्वलोकवशं भवेत् ॥ १३७ ॥

सर्वेषां स्तंभनकरं, गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव, सुकर्मसिद्धिदं भवेत् ॥ १३८ ॥

असिद्धं साधयेत्कार्यं, नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव, सुस्वप्नफलदायकम् ॥ १३९ ॥

सर्वशान्तिकरं नित्यं, तथा वंध्यासुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां, सौभाग्यदायकं सदा ॥ १४० ॥

आयुरारोग्यमैश्र्वर्यं-पुत्रपौत्रप्रवर्धनम् ।
अकामतःस्त्री विधवा, जपानमोक्षमवाप्नुयात् ॥ १४१ ॥

अवैधव्यं सकामा तु, लभते चान्यजन्मनि ।
सर्वदुःखभयं विघ्नं, नाशयेच्छापहारकम् ॥ १४२ ॥

सर्वबाधाप्रशमनं, धर्मार्थकाममोक्षदम् ।
यं यं चिंतयते कामं, तं तं प्राप्नोति निश्र्चितम् ॥ १४३ ॥

कामितस्य कामधेनुः, कल्पनाकल्पपादपः ।
चिन्तामणिश्र्चिंतितस्य, सर्वमंगलकारकम् ॥ १४४ ॥

मोक्षहेतुर्जपेन्नित्यं, मोक्षश्रियमवाप्नुयात् ।
भोगकाम जपेद्यो वै, तस्य कामफलप्रदम् ॥ १४५ ॥

जपेच्छाक्तश्र्च सौरश्र्च, गाणपत्यश्र्च वैष्णवः ।
शैवश्र्च सिद्धिदं देवि, सत्यं सत्यं न संशयः ॥ १४६ ॥

अथ काम्यजपे स्थानं, कथयामि वरानने ।
सागरे वा सरित्तीरेऽथवा हरिहरालये ॥ १४७ ॥

शक्तिदेवालये गोष्टे, सर्वदेवालये शुभे ।
वटे च धात्रीमूले वा, मठे वृंदावने तथा ॥ १४८ ॥

पवित्रे निर्मले स्थाने, नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन, जपमेतं समाचरेत् ॥ १४९ ॥

स्मशाने भयभूमौ तु वटमूलान्तिके तथा ।
सिद्ध्यन्ति धौत्तरे मूले, चूतवृक्षस्य सन्निधौ ॥ १५० ॥

गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा ।
शुभकर्माणि सर्वाणि, दीक्षाव्रततपांसि च ॥ १५१ ॥

संसारमलनाशार्थं, भवपाशनिवृत्तये ।
गुरुगीतांभसि स्नानं, तत्त्वज्ञः कुरुते सदा ॥ १५२ ॥

स एव च गुरुः साक्षात्, सदा सद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि, पवित्राणि न संशयः ॥ १५३ ॥

सर्वशुद्धः पवित्रौऽसौ, स्वभावाद्यंत्र तिष्ठति ।
तत्र देवगणाः सर्वे, क्षेत्र पीठे वसन्ति हि ॥ १५४ ॥

आसनस्थः शयानो वा, गच्छँस्तिष्ठन् वदन्नपि ।
अश्र्वारुढो गजारुढः, सुप्तो वा जागृतोऽपि वा ॥ १५५ ॥

शुचिष्मांश्र्च सदा ज्ञानी, गुरुगीताजपेन तु ।
तस्य दर्शनमात्रेण, पुनर्जन्म न विद्यते ॥ १५६ ॥

समुद्रे च तथा तोयं, क्षीरे क्षीरं घृते घृतं ।
भिन्ने कुंभे यथाकाश-स्तथात्मा परमात्मनि ॥ १५७ ॥

तथैव ज्ञानी जीवात्मा, परमात्मनि लीयते ।
ऐक्येन रमते ज्ञानी, यत्र तत्र दिवानिशम् ॥ १५८ ॥

एवंविधो महामुक्तः, सर्वदा वर्तते बुधः ।
तस्य सर्वप्रयत्नेन, भावभक्तिं करोति यः ॥ १५९ ॥

सर्वसंदेहरहितो, मुक्तो भवति पार्वति ।
भुक्तिमुक्तिद्वयं तस्य, जिव्हाग्रे च सरस्वती ॥ १६० ॥

अनेन प्राणिनः सर्वे, गुरुगीताजपेन तु ।
सर्वसिद्धिं प्राप्नुवन्ति, भुक्तिं मुक्तिं न संशयः ॥ १६१ ॥

सत्यं सत्यं पुनः सत्यं, धर्मं साख्यं मयोदितम् ।
गुरुगीता समं नास्ति, सत्यं सत्यं वरानने ॥ १६२ ॥

एको देव एकधर्म, एकनिष्ठा परंतपः ।
गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥ १६३ ॥

माता धन्या पिता धन्यो, धन्यो वंशः कुलं तथा ।
धन्या च वसुधा देवि, गुरुभक्तिः सुदुर्लभा ॥ १६४ ॥

शरीरमिंद्रियं प्राणश्र्चार्थः स्वजनबांधवाः ।
माता पिता कुलं देवि, गुरुरेव न संशयः ॥ १६५ ॥

आकल्पं जन्मना कोट्या, जपव्रततपःक्रियाः ।
तत्सर्वं सफलं देवि, गुरुसंतोषमात्रतः ॥ १६६ ॥

विद्यातपोबलेनैव, मंदभाग्याश्र्च ये नराः ।
गुरुसेवां न कुर्वन्ति, सत्यं सत्यं वरानने ॥ १६७ ॥

ब्रह्मविष्णुमहेशाश्र्च, देवर्षिपितृकुन्नराः ।
सिद्धचारणयक्षाश्र्च, अन्येऽपि मुनयो जनाः ॥ १६८ ॥

गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थाश्रयं देवि, पादाङ्गुष्ठं च वर्तते ॥ १६९ ॥

जपेन जयमाप्नोति, चानंतफलमाप्नुयात् ।
हीनकर्म त्यजन्सर्वं, स्थानानि चाधमानिच ॥ १७० ॥

उग्रध्यानं कुक्कुटस्थं, हीनकर्मफलप्रदं ।
गुरुगीतां प्रयाणे वा, संग्रामे रिपुसंकटे ॥ १७१ ॥

जपते जयमाप्नोति, मरणे मुक्तिदायकम् ।
सर्वकर्म च सर्वत्र, गुरुपुत्रस्य सिद्ध्यति ॥ १७२ ॥

इदं रहस्यं नो वाच्यं, तवाग्रे कथितं मया ।
सुगोप्यं च प्रयत्नेन, मम त्वं च प्रिया त्विति ॥ १७३ ॥

स्वामिमुख्यगणेशादिविष्ण्वादीनां च पार्वति ।
मनसापि न वक्तव्यं, सत्यं सत्यं वदाम्यहम् ॥ १७४ ॥

अतीवपक्वचिपारंपरत्ताय, श्रद्धाभक्तियुताय च ।
प्रवक्तव्यमिदं देवि, ममात्माङसि सदाप्रिये ॥ १७५ ॥

अभक्ते वंचके धूर्ते, पाखण्डे नास्तिके नरे ।
मनसापि न वक्तव्या, गुरुगीता कदाचन ॥ १७६ ॥

इति श्रीस्कंदपुराणे उत्तरखण्डे ईश्र्वरपार्वती संवादे गुरुगीता समाप्ता ।
श्रीगुरुदेवदत्तात्रेयार्पणमस्तु ॥

याकारणें ईश्र्वरें पाहे । पार्वतीस बोध केला आहे ।
पारंपार मार्ग चालिला पाहे । गुरुसेवा सुदुर्लभ ॥ १४ ॥

विधाता आदिकरुनि । समस्त वंदिती याचिगुणीं ।
जो जाहला अंतर-मनोन्मनी । तोचि श्रेष्ठ सकळिकां ॥ १५ ॥

गुरुसेवा अनंत सुख । दूर होय समस्त दुःख ।
तोचि धन्य नर एक । या क्षितीवरी ॥ १६ ॥

वसिष्ठ वाल्मीक जनकादिक । समस्त नांव पावले गुरुसेवें निक ।
तुम्ही शहाणे चतुर विवेक । भजा भजा हो श्रीगुरुसी ॥ १७ ॥

सद्गुरुसी भजतां सद्भावेंसीं । सद्गति होईल तुम्हां भरंवसीं ।
याकारणें स्थिरमनेंसीं । शरण रिघावें श्रीगुरुमूर्तीस ॥ १८ ॥

गुरुमूर्तीसि संतोष होतां । त्रयमूर्ति तुष्टती तत्त्वता ।
वेदशास्त्रीं असे संमता । पारंपर गुरुमार्ग हा ॥ १९ ॥

पूर्वी युगायुगीं पाहे । आयुष्य फार नरदेहा ।
अनेक तप करिती सायास पाहे । मुक्ति होत त्या नरांसी ॥ २० ॥

आतां वर्तला कलि प्रबळ । वेदमार्ग राहिला सकळ ।
जन जाहले मूढ केवळ । ज्ञानहीन पशूपरी ॥ २१ ॥

या कलियुगामाझारीं । ज्ञानी जाहले मूढापरी ।
कांही नेणती अंधबधिरीं । मायापाशें वेष्टोनियां ॥ २२ ॥

याकारणें तुम्ही विद्वजन । ‘ गुरुभाव ‘ धरा स्थिरमनें ।
तुमचें तुटेल भवबंधन । श्रीगुरुराजप्रसादें ॥ २३ ॥

लाधे ज्यासी गुरुप्रसाद । त्यासी प्राप्त होय कैवल्यपद ।
दूरी होईल कामक्रोधमद । साध्य होईल पद-अच्युत ॥ २४ ॥

अवतार याकारणें । घेतला असे नारायणें ।
साधुजन उद्धरावयाकारणें । अवतरले कलियुगी श्रीगुरुमूर्ति ॥ २५ ॥

भूमिभार उतरावया । जन्म धरिला श्रीपादराया ।
दत्तात्रेय-अवधूतरायें । वेष धरिला नरदेहीं ॥ २६ ॥

देह धरुनि श्रीगुरुमूर्ति । समस्त उद्धरिले जडमति ।
अवतरले आपण लक्ष्मीपति । केवळ सात्विक रुपानें ॥ २७ ॥

जे जे असती भाविक जन । त्यांसी उद्धरी आपण ।
बळात्कारें जाई त्यांचिया भुवना । श्रीसद्गुरुराज योगी ॥ २८ ॥

आतां असो हें युक्तीचें कथन । भावें धरा हो सद्गुरुभजन ।
हातां चढेल उमारमण । श्रीगुरुप्रसादें ॥ २९ ॥

श्रीगुरुप्रसाद लाधे ज्यासी । त्यासी साध्य व्योमकेशी ।
निवारण करी मोहपाशासी । मग रहाल शाश्र्वत पदीं ॥ ३० ॥

संसार म्हणिजे भवसमुद्र । यासी करावा निःशेष भद्र ।
बळकट धरावी भाव मुद्रा । मग पावाल पैलपार ॥ ३१ ॥

गुरुभक्ति म्हणिजे कामधेनु । कल्पिलें होय मनकामनु ।
न धरावा मनीं तुम्ही अनुमानु । शरण रिघावें श्रीगुरुमूर्तीसी ॥ ३२ ॥

प्रसन्न होतां श्रीगुरु जाण । बाधों न शके यम आपण ।
जरी असेल पापक्षोण । लय होईल भरंवसें ॥ ३३ ॥

संपर्क होतां अग्नीसी । तृणबणवी होय भस्मसुरसी ।
तैशा तुमच्या सकळ पापराशी । निःशेष जातील परियेसा ॥ ३४ ॥

॥ इति श्रीगुरुचरित्रामृते परमकथाकल्पतरौ श्रीनृसिंहसरस्वत्युपाख्याने
सिद्धनामधारकसंवादे सरस्वती-गंगाधरविरचिते गुरुगीतावर्णन नाम एकोनपंचाशत्तमोऽध्यायः ॥

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥

SHARE