शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १ ॥ अभीप्सितार्थासिद्ध्यर्थं पूजितो यः सुरासरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ २ ॥ गणानामधिपश्चण्डो गजवक्रस्त्रिलोचनः । प्रसन्नो भव मे नित्य वरदातर्विनायक ॥ ३ ॥ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नाशो विनायकः ॥ ४ ॥ धुम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ ५ ॥ ॥ इति श्रीगणेशेद्वादशा स्तोत्रम् संपूर्णम् ॥
