Skip to content

मराठी कथाकविता.com
  • मुखपृष्ठ
  • कथा
  • कविता
  • मराठी लेख
  • दिनविशेष
  • कॅटेगरीज
  • अध्यात्मिक
  • माहिती
  • संपर्क
  • Call +919923777633 Email Khajandar_yogesh@yahoo.in

मुखपृष्ठ » अध्यात्मिक

श्रीगणेशकीलक स्तोत्रम् || Stotram || Devotional ||

Category अध्यात्मिक
श्रीगणेशकीलक स्तोत्रम्  || Stotram || Devotional ||
Share This:

दक्ष उवाच

गणेशकीलकं ब्रह्मन् वदसर्वार्थदायकम् ।
मंत्रादीनां विशेषेण सिद्धिदं पूर्णंभावतः ॥ १ ॥

मुद्गल उवाच

कीलकेन विहीनाश्च मंत्रा नैव सुखप्रदाः ।
आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २ ॥

तदा वीर्ययुता मंत्राः नानासिद्धि प्रदायकाः ।
भवंति नात्र संदेहः कथयामि यथाश्रृतम् ॥ ३ ॥

समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् ।
सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥ ४ ॥

अस्य श्रीगणेशकीलकस्य शिव ऋषिः । अनुष्टुप्छन्दः ।
श्रीगणपतिर्देवता । ओं गं योगाय स्वाहा । ओं गं बीजम् ।
विद्याऽविद्याशक्तिगणपति प्रीत्यर्थे जपे विनियोगः ।

छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् ।
एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५ ॥

ततो ध्यायेद्गणेशानं ज्योतिरुपधरं परम् ।
मनोवाणी विहीनं च चतुर्भुज विराजितम् ॥ ६ ॥

शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते ।
विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७ ॥

एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक् ।
पंचोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८ ॥

एकविंशतिवारं तु जपं कुर्यात् प्रजापते ।
ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत् ॥ ९ ॥

रुपं बलं श्रियं देहि यशो वीर्यं गजानन ।
मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तुते ॥ १० ॥

यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः ।
तदा त्वं तान्निहत्य स्म करोषि वीर्यसम्युतान् ॥ ११ ॥

तथा मंत्रा गणेशान कुण्ठिताश्च दुरात्मभिः ।
शापैश्च तान्सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२ ॥

शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो ।
ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३ ॥

चराचरं जगत्सर्वे सत्ताहीनं यदा भवेत् ।
त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४ ॥

तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप ।
स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५ ॥

ब्रह्माणि योगहीनानि जातानि स्मरणेन ते ।
यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६ ॥

इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो ।
सत्तायुक्तं बभूवैव विघ्नेशाय नमोनमः ॥ १७ ॥

तथा मंत्रा गणेशान वीर्यहीना बभूविरे ।
स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान्कुरुष्व ते ॥ १८ ॥

सर्वं सत्तासमायुक्तं मंत्रपूजादिकं प्रभो ।
मम नाम्ना भवतु ते वक्रतुंडाय ते नमः ॥ १९ ॥

उत्कीलय महामंत्रान् जपेन स्तोत्रपाठतः ।
सर्वसिद्धिप्रदा मन्त्रा भवंतु त्वत्प्रसादतः ॥ २० ॥

गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने ।
स्वानंदवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१ ॥

गणेशकीलकमिदं कथितं ते प्रजापते ।
शिवप्रोक्तं तु मंत्राणामुत्कीलनकरं परम् ॥ २२ ॥

यः पठिष्यति भावेन जप्त्वा ते मंत्रमुत्तमम् ।
स सर्वसिद्धिमाप्नोति नाना मंत्र समुद्भवाम् ॥ २३ ॥

एनं त्यक्त्वा गणेशस्य मंत्रं जपति नित्यदा ।
स सर्व फलहीनश्च जायते नात्र संशयः ॥ २४ ॥

सर्व सिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् ।
पुरानेन स्वयं शंभुर्मन्त्रजां सिद्धिमालभत् ॥ २५ ॥

विष्णुब्रह्मादयो देवा मुनयो योगिनः परे ।
अनेन मंत्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६ ॥

ऐलः कीलकमाद्यं वै कृत्वा मंत्रपरायणः ।
गतः स्वानंदपुर्यां स भक्तराजो बभूव ह ॥ २७ ॥

सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु ।
गणेशदर्शनेनैव ज्योतीरुपो बभूव ह ॥ २८ ॥

दक्ष उवाच ।

ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् ।
ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम् ॥ २९ ॥

पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते ।
अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३० ॥

मुद्गल उवाच ।

विमानस्थः स्वयं राजा कृपया तान् ददर्श ह ।
गाणेशानां जडस्थश्र्च शिवविष्णुमुखान् प्रभो ॥ ३१ ॥

स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे ।
योगरुपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२ ॥

एतत्ते कथितं सर्वमैलस्य चरितं शुभम् ।
यः श्रृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम् ॥ ३३ ॥

॥ इति श्रीमुद्गलमहापुराणे पञ्चमेखण्डे लम्बोदरचरित्रे
श्रवणमाहात्म्यवर्णनं नाम पञ्चत्वारिंशत्तमोऽध्याये श्रीगणेशकीलकस्तोत्रं संपूर्णम् ॥

Tags श्रीगणेशकीलक स्तोत्रम् DEVOTIONAL Stotram

RECENTLY ADDED

कावेरीस्तुतिः || Stuti || Devotional ||
दीप प्रज्वलन मंत्र: || Devotional || शुभं करोति ||
बुद्धिस्तोत्र || Buddhistotr || Adhyatmik ||
सरस्वती वंदना || DEVOTIONAL ||
श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||
श्री कृष्ण स्तुती || Stuti || Devotional ||
नमामि नारायणपादपङ्कजम् स्तोत्रम् || Devotional ||
नमामि नारायणपादपङ्कजम् स्तोत्रम् || Devotional ||

TOP POST’S

man couple love people

तुला लिहिताना || Tula Lihitana || Marathi Poem ||

पानांवर तुला लिहिताना कित्येक वेळा तुझी आठवण येते कधी ओठांवर ते हसु असतं आणि मनामध्ये तुझे चित्र येते कधी शब्दात शोधताना पुन्हा उगाच तुझ्याकडे येते भावना ती तुझीच असते कविता होऊन माझ्याकडे येते
Dinvishesh

दिनविशेष १३ मार्च || Dinvishesh 13 March ||

१. चेस्टर ग्रीनवुड यांनी इअरमफचे पेटंट केले. (१८७७) २. अमेरिकेने भौतिकदृष्ट्या आपल्या स्थानावर असलेल्या प्रमाणित वेळेला (Standard Time) मान्यता दिली. (१८८४) ३. विल्यम हर्षेल या खगोलशास्त्रज्ञांनी युरेनसचा शोध लावला. (१७८१) ४. इंडोनेशिया आणि नेदरलँड यांनी आपले राजनैतिक संबंध पुन्हा प्रस्थापित केले. (१९६३) ५. अर्जुन पुरस्कार देण्याची सुरुवात झाली. (१९६३)
couple

हो ना || HO NA || MARATHI LOVE POEMS ||

"गोष्ट फक्त एवढीच होती मला समजून सांगायचे होते आणि तुला समजून घ्यायचे न्हवते
woman looking at hot air balloons

खुदसे यु कहता यही || HINDI || POEMS ||

खुदसे यु कहता यही राह से भटके नही पाप को पुण्य से परास्त होना यही समय के चक्र में दौडती ये जिंदगी भटके रास्तों पर मंजीले मिलती नहीं
श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||

श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||

शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः । अनंतस्याप्रमेयस्य नामद्वादशं स्तवम् ॥ १ ॥ अर्जुनाय पुरा गीतं गोपालेन महात्मनः । द्वारकायां प्रार्थयते यशोदायाश्र्च संनिधौ ॥ २ ॥

© 2022 - ALL RIGHTS RESERVED
facebook twitter youtube instagram pinterest