श्रीराम उवाच
नमस्ते त्रिजगद्वन्द्ये संग्रामे जयदायिनि ।
प्रसीद विजयं देहि कात्यायनि नमोsस्तु ते ॥ १ ॥
सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि ।
दुष्टजृम्भिणि संग्रामे जयं देहि नमोsस्तु ते ॥ २ ॥
त्वमेका परमा शक्तिः सर्वभूतेष्ववस्थिता ।
दुष्टं संहर संग्रामे जयं देहि नमोsस्तु ते ॥ ३ ॥
रणप्रिये रक्तभक्षे मांसभक्षणकारिणि ।
प्रपन्नार्तिहरे युद्धे जयं देहि नमोsस्तु ते ॥ ४ ॥
खट्वाग्ङासिकरे मुण्डमालाद्योतितविग्रहे ।
ये त्वां स्मरन्ति दुर्गेषु तेषां दुःखहरा भव ॥ ५ ॥
त्वत्पादपक्ङजात्दैन्यं नमस्ते शरणप्रिये ।
विनाशय रणे शत्रून् जयं देहि नमोsस्तु ते ॥ ६ ॥
अचिन्त्यविक्रमेsचिन्त्यरूपसौन्दर्यशालिनि ।
अचिन्त्यचरितेsचिन्त्ये जयं देहि नमोsस्तु ते ॥ ७ ॥
ये त्वां स्मरन्ति दुर्गेषु देवीं दुर्गविनाशिनीम् ।
नावसीदन्ति दुर्गेषु जयं देहि नमोsस्तु ते ॥ ८ ॥
महिषासृक्प्रिये संख्ये महिषासुरमर्दिनि ।
शरण्ये गिरिकन्ये मे जयं देहि नमोsस्तु ते ॥ ९ ॥
प्रसन्नवदने चण्डि चण्डासुरविमर्दिनि ।
संग्रामे विजयं देहि शत्रूञ्जहि नमोsस्तु ते ॥ १० ॥
रक्ताक्षि रक्तदशने रक्तचर्चितगात्रके ।
रक्तबीजनिहन्त्री त्वं जयं देहि नमोsस्तु ते ॥ ११ ॥
निशुम्भशुम्भसंहन्त्रि विश्वकर्त्रि सुरेश्वरि ।
जहि शत्रुन् रणे नित्यं जयं देहि नमोsस्तु ते ॥ १२ ॥
भवान्येतज्जगत्सर्वं त्वं पालयसि सर्वदा ।
रक्ष विश्वमिदं मातर्हत्वैतान् दुष्टराक्षसान् ॥ १३ ॥
त्वं हि सर्वगता शक्तिर्दुष्टमर्दनकारिणि ।
प्रसीद जगतां मातर्जयं देहि नमोsस्तु ते ॥ १४ ॥
दुर्वृत्तवृन्ददमनि सद्वृत्तपरिपालिनि ।
निपातय रणे शत्रूञ्जयं देहि नमोsस्तु ते ॥ १५ ॥
कात्यायनि जगन्मातः प्रपन्नार्तिहरे शिवे ।
संग्रामे विजयं देहि भयेभ्यः पाहि सर्वदा ॥ १६ ॥ ॥
इति श्रीमहाभागवते महापुराणे श्रीरामकृता कात्यायनीस्तुतिः सम्पूर्णा ॥
श्रीकात्यायनीस्तुतिः || Adhyatmik || Stuti ||
