शिवोऽपि शक्तियुक्तश्चेत्प्रभुः कार्याय नान्यथा ।
स्वमायया विनेशस्य परस्यानुभवात्मनः ॥ १ ॥
न घटेतार्थसंबंधस्ततो माया परावरा ।
यस्याः प्रभावं प्रवक्तुं ब्रह्माद्या अप्यलं बलम् ॥ २ ॥
वैष्णवीयं महामाया सुरासुरमुनिस्तुता ।
शय्यां देवमयीं कृत्वा शेतेऽसाविति गीयते ॥ ३ ॥
सर्वे देवाश्च मुनयो विषमे यां स्तुवन्ति हि ।
सृष्टिस्थितिविनाशानां हेतुरेका सनातनी ॥ ४ ॥
विदुषोऽपि हठाच्चेतो महामोहाय यच्छति ।
अभक्तानां बन्धहेतुर्भक्तानां मुक्तिदा च सा ॥ ५ ॥
सर्वेष्वपि हि भूतेषु चेतनेत्युच्यते ततः ।
स्वात्मारामो शिवोऽप्यत्र रत्यर्थमनुधावति ॥ ६ ॥
माया चतुष्कपर्दाऽसौ युवतिर्नित्यनूतना ।
सुपेशा च घृतास्यादौ वस्तेस्य वयुनान्यपि ॥ ७ ॥
भक्तिश्रद्धाधृतिर्हीश्रीधीमेधाद्यैश्च सत्सु या ।
तृष्णालक्ष्याऽऽर्तिभीनिद्रातन्द्रारुपैरसत्सु च ॥ ८ ॥
क्षणे क्षणे विमुह्यन्ति वशिनोऽप्यत्र योगिनः ।
सैषानिर्वचनीयार्च्या या ह्यनादिरजा श्रुता ॥ ९ ॥
॥ इति श्री परमहंस परिव्राजकाचार्य
श्रीवासुदेवानंदसरस्वतिविरचिता शक्तेः महात्म्यनि संपूर्णा ॥
