नारायण उवाच
श्रुणु नारद वक्ष्यामि दुर्गायाः कवचं शुभम् I
श्रीकृष्णेनैव यद् दत्तं गोलोके ब्रह्मणे पुरा II
ब्रह्मा त्रिपुरसंग्रामे शंकराय ददौ पुरा I
जघान त्रिपुरं रुद्रो यद् धृत्वा भक्तिपूर्वकम् II
हरो ददौ गौतमाय पद्माक्षाय च गौतमः I
यतो बभूव पद्माक्ष: सप्तद्वीपेश्वरो जयी II
यद् धृत्वा पठनाद् ब्रह्मा ज्ञानावाश्क्तिमान् भुवि I
शिवो बभूव सर्वज्ञो योगिनां च गुरुर्यतः I
शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः II
ब्रह्मांडविजयस्यास्य कवचस्य प्रजापतिः I
ऋषिःछन्दः च गायत्री देवी दुर्गतिनाशिनी II
ब्रह्मांडविजये चैव विनियोगः प्रकीर्तितः I
पुण्यतीर्थं च महतां कवचं परमाभ्दुतम् II
ओम ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम् I
ओम ह्रीं मे पातु कपालं च ओम ह्रीं श्रीमिति लोचने II
पातु मे कर्णयुग्मं च ओम दुर्गायै नमः सदा I
ओम ह्रीं श्रीमिति नासां मे सदा पातु च सर्वतः II
ह्रीं श्रीं ह्रूमिती दंतानि पातु क्लीमोष्टयुग्मकम् I
क्रीम् क्रीम् क्रीम् पातु कंठं च दुर्गे रक्षतु गण्डकम् I
स्कन्धम् दुर्गविनाशिन्यै स्वाहा पातु निरन्तरम् I
वक्षो विपद्विनाशिन्यै स्वाहा मे पातु सर्वतः II
दुर्गे दुर्गे रक्षिणीति स्वाहा नाभिं सदावतु I
दुर्गे दुर्गे रक्ष रक्ष पृष्टं मे पातु सर्वतः II
ओम ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदावतु I
ओम ह्रीं दुर्गायै स्वाहा च सर्वांगम् मे सदावतु II
प्राच्यां पातु महामाया आग्नेय्याम् पातु कालिका I
दक्षिणे दक्षकन्या च नैर्ऋत्यां शिवसुंदरी II
पश्चिमे पार्वती पातु वाराही वारुणे सदा I
कुबेरमाता कौबेर्यामैशान्यामीश्वरी सदा II
ऊर्ध्व नारायणी पातु अंबिकाधः सदावतु I
ज्ञाने ज्ञानप्रदा पातु स्वप्ने निद्रा सदावतु I
इति ते कथितं वत्स सर्व मंत्रौघविग्रहम् I
ब्रह्मांडविजयं नाम कवचं परमाभ्दुतम् II
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत् फलं I
सर्वव्रतोपवासे च तत् फलं लभते नरः II
गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचंदनै: I
कंठे वा दक्षिणे बाहौ कवचं धारयेत्तु यः II
स च त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः I
इदं कवचमज्ञात्वा भजेद् दुर्गतिनाशिनीम् II
शतलक्षप्रजप्तोSपि न मंत्र: सिद्धिदायकाः II
कवचं काण्वशाखोक्तमुक्तं नारद सुंदरम् I
यस्मै कस्मै न दातव्यं गोपनीयं सुदुर्लभम् II
इति श्रीब्रह्मवैवर्तपुराणे गणपतीखंडे ब्रह्मांडविजयं नाम दुर्गाकवचं संपूर्णं II
ब्रह्मांडविजयं नाम दुर्गाकवचं || Durga Kavacham || Devotional ||
