ॐ उत्तिष्ठंतु महाभूता ये भूता भूमिपालकाः ।
भूतानामविरोधेन ब्रह्मकर्म समाचरेत् ॥
आवाहयाम्यहं देवीं गायत्रीं सूर्यमण्डलात् ।
आगच्छ वरदे देवि त्रयक्षरे ब्रह्मवादिनी ॥
गायत्रि च्छंदसां मातर्ब्रह्मयोने नमोऽस्तु ते ॥
इत्यावाहनम् ॥
अथ वसिष्ठशापमोचनमंत्रः
ॐ अस्य श्रीवसिष्ठशापमोचनमंत्रस्य वसिष्ठ ऋषिरनुष्टुच्छंदः
श्रीविष्णुर्देवता वसिष्ठशापमोचनार्थे जपे विनियोगः ॥
अहो महानुभावे बहुरुपे दिव्ये सिद्धे सरस्वति ।
अजरेअमर चैव वसिष्ठशापमुक्ता भव ।
अथ करन्यासः
ॐ वाक् वाक् । ॐ प्राणः प्राणः । ॐ चक्षुश्र्चक्षुः ।
ॐ श्रोत्रं श्रोत्रम् ।
ॐ उदरे । ॐ ललाटे । ॐ नाभौ । ॐ हृदि । ॐ कंठें ।
ॐ शिरसि । ॐ शिखायाम् । ॐ कवचम् ।
अथ ब्रह्मगायत्री ।
ॐ भूर्भुवः स्वः ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ।
अथ करन्यासः
ॐ भूः अंगुष्ठाभ्यां नमः । ॐ भुवः तर्जनीभ्यां नमः ।
ॐ स्वः मध्यमाभ्यां नमः । ॐ तत्सवितुर्वरेण्यम् अनामिकाभ्यां नमः ।
ॐ भर्गो देवस्य धीमहि कनिष्ठिकाभ्यां नमः ।
ॐ धियो यो नः प्रचोदयात् करतलकरपृष्ठानभ्यां नमः ।
अथ हृदयादिन्यासः
ॐ भूः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा ।
ॐ स्वः शिखायै वषट् ।
ॐ तत्सवितुर्वरेण्यं कवचाय हुम् ।
ॐ भर्गो देवस्य धीमहि नेत्र त्रयाय वौषट् ।
ॐ धियो यो नः प्रचोदयात् अस्त्राय फट् ।
अथाक्षरन्यासः
ॐ तत् पादयोः । ॐ सवितुर्जंघयोः ।
ॐ वरेण्यं कटिदेशे । ॐ भर्गो नाभौ ।
ॐ देवस्य हृदये । ॐ धीमहि कण्ठे ।
ॐ धियो नासाग्रे । ॐ यो नेत्रयोः ।
ॐ नः ललाटे । ॐ प्रचोदयात् शिरसि ।
ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः ।
ॐ जनः । ॐ तपः । ॐ सत्यम् ।
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ।
इति मंत्रः ।
ॐ आपो ज्योती रसोऽमृतं ब्रह्म भुर्भूवः स्वः ।
अथ पुनर्मंत्रः
ॐ क्लीं श्रीं ब्रह्मस्वरुपाय नमः ।
इति ब्रह्मगायत्री ॥
ब्रह्मगायत्री || Gayatri || Devotional ||
