Share This:

हरि ॐ

सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।
स भूमिं विश्र्वतो वृत्वाऽत्यतिष्ठद्दशांङ् गुलम् ॥ १ ॥

पुरुष एवेदं सर्व यद् भूतं यच्च भव्यम् ।
उतामृत त्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥

एतावानस्य महिमाऽतोज्यायॉंश्र्च पूरुषः ।
पादोऽस्य विश्र्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥

त्रिपादूर्ध्वं उदैत्पुरुषः पादोस्येहा भवत् पुनः ।
ततो विष्वङ् व्यक्रामत् साशनानशने अभि ॥ ४ ॥

तस्माद्विराळ जायत विराजो अधिपुरुषः ।
स जातो अत्यरिच्यत पश्र्चाद भूमिमयो पुरः ॥ ५ ॥

यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासी दाज्यं ग्रीष्म इध्मः शरद्धविः ॥ ६ ॥

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्र्च ये ॥ ७ ॥

तस्मात् यज्ञात् सर्व हुतः सम्भृतं पृषदाज्यम् ।
पशून्तांश्र्चक्रे वायव्या नारण्यान् ग्राम्याश्च ये ॥ ८ ॥

तस्मात् यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् यजुस्तस्माद् अजायत ॥ ९ ॥

तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ १० ॥

यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कीं बाहू का उरु पादा उच्येते ॥ ११ ॥

ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ।
उरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥

चन्द्रमा मनसो जातश्र्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्र्चाग्निश्र्च प्राणाद्वायुरजायत ॥ १३ ॥

नाम्या आसी दन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकॉ अकल्पयन् ॥ १४ ॥

सप्तास्यासन् परिधयः त्रिः सप्तः समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५ ॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥

[cpt_ajax_load_more post_type="post" template="default" posts_per_page="6"]