Skip to content

मराठी कथाकविता.com
  • मुखपृष्ठ
  • कथा
  • कविता
  • मराठी लेख
  • दिनविशेष
  • कॅटेगरीज
  • अध्यात्मिक
  • माहिती
  • संपर्क
  • Call +919923777633 Email Khajandar_yogesh@yahoo.in

मुखपृष्ठ » अध्यात्मिक

पितृस्तुति || Pitrustuti || Devotional ||

Category अध्यात्मिक
पितृस्तुति  || Pitrustuti || Devotional ||
Share This:

रुचिरुवाच

नमस्येsहं पितॄन् भक्त्या ये वसन्त्यधिदैवतम् ।
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १ ॥

नमस्येsहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभि: ॥ २ ॥

नमस्येsहं पितॄन् स्वर्गे सिद्धाः संतर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३ ॥

नमस्येsहं पितॄन् भक्त्या येsर्च्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाञ्छद्भिर्ॠद्धिमात्यन्तिकीं पराम् ॥ ४ ॥

नमस्येsहं पितॄन् मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्राद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ ५ ॥

नमस्येsहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ ६ ॥

नमस्येsहं पितॄन् ये वै तर्प्यन्तेsरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ ७ ॥

नमस्येsहं पितॄन् विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं संतर्प्यन्ते समाधिभिः ॥ ८ ॥

नमस्येsहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ ९ ॥

नमस्येsहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १० ॥

नमस्येsहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः ।
संतर्प्यन्ते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ ११ ॥

नमस्येsहं पितॄञ्छ्राद्धे पाताले ये महासुरैः ।
संतर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२ ॥

नमस्येsहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३ ॥

नमस्येsहं पितॄञ्छ्राद्धैः सर्पैः संतर्पितान् सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४ ॥

पितॄन्नमस्ये निवसन्ति साक्षाद्दे देवलोकेsथ महीतले वा ।
तथान्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १५ ॥

पितॄन्नमस्ये परमार्थभूता ये वै विमाने नोवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्र्वराः क्लेशविमुक्तिहेतून् ॥ १६ ॥

पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येsनभिसंहितेषु ॥ १७ ॥

तृप्यन्तु तेsस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोsधिकं वा गजाश्र्वरत्नानि महागृहाणि ॥ १८ ॥

सोमस्य ये रश्मिषु येsर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेsस्मिन्पितरोsन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १९ ॥

येषां हुतेsग्रौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेsस्मिन्पितरोsन्नतोयैः ॥ २० ॥

ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्यमनोहरैश्र्च ।
कालेन शाकेन महर्षिवर्यैः संप्रीणितास्ते मुदमत्र यान्तु ॥ २१ ॥

कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषां च सांनिध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२ ॥

दिने दिने ये प्रतिगृह्णतेsर्चा मासान्तपूज्या भुवि येsष्टकासु ।
ये वत्सरान्तेsभ्युदये च पूज्याः प्रयान्तु ते मे पितरोsत्र तुष्टिम् ॥ २३ ॥

पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४ ॥

तेsस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।
तथाग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोsस्मि तेभ्यः ॥ २५ ॥

ये देवपूर्वाण्यभितृप्तिहेतोरश्नन्ति कव्यानि शुभाह्रतानि ।
तृप्ताश्र्च ये भूतिसृजो भवन्ति तृप्यन्तु तेsस्मिन् प्रणतोsस्मि तेभ्यः ॥ २६ ॥

रक्षांसि भूतान्यसुरांस्तथोग्रान् निर्णाशयन्तु त्वशिवं प्रजानाम् ।
आद्दाः सुराणाममरेशपूज्यास्तृप्यन्तु तेsस्मिन् प्रणतोsस्मि तेभ्यः ॥ २७ ॥

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेsस्मिन्पितरस्तर्पिता मया ॥ २८ ॥

अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ २९ ॥

रक्षोभूरपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३० ॥

विश्र्वो विश्र्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद भूतिः पितृणां ये गणा नव ॥ ३१ ॥

कल्याणः कल्यदः कर्ता कल्य कल्यतराश्रयः ।
कल्यताहेतुरनघःषडिमे ते गणाः स्मृताः ॥ ३२ ॥

वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्र्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३ ॥

महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवैते पितृणां पापनाशनाः ॥ ३४ ॥

सुखदो धनदश्र्चान्यो धर्मदोsन्यश्र्च भूतिदः ।
पितृणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५ ॥

एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ ३६ ॥

॥ इति श्री गरुड पुराणे प्रजापति रुचिकृतं पितृ स्तुति संपूर्णा ॥

Tags पितृस्तुति DEVOTIONAL Pitrustuti

RECENTLY ADDED

कावेरीस्तुतिः || Stuti || Devotional ||
दीप प्रज्वलन मंत्र: || Devotional || शुभं करोति ||
बुद्धिस्तोत्र || Buddhistotr || Adhyatmik ||
सरस्वती वंदना || DEVOTIONAL ||
श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||
श्री कृष्ण स्तुती || Stuti || Devotional ||
नमामि नारायणपादपङ्कजम् स्तोत्रम् || Devotional ||
नमामि नारायणपादपङ्कजम् स्तोत्रम् || Devotional ||

TOP POST’S

man couple love people

तुला लिहिताना || Tula Lihitana || Marathi Poem ||

पानांवर तुला लिहिताना कित्येक वेळा तुझी आठवण येते कधी ओठांवर ते हसु असतं आणि मनामध्ये तुझे चित्र येते कधी शब्दात शोधताना पुन्हा उगाच तुझ्याकडे येते भावना ती तुझीच असते कविता होऊन माझ्याकडे येते
Dinvishesh

दिनविशेष १३ मार्च || Dinvishesh 13 March ||

१. चेस्टर ग्रीनवुड यांनी इअरमफचे पेटंट केले. (१८७७) २. अमेरिकेने भौतिकदृष्ट्या आपल्या स्थानावर असलेल्या प्रमाणित वेळेला (Standard Time) मान्यता दिली. (१८८४) ३. विल्यम हर्षेल या खगोलशास्त्रज्ञांनी युरेनसचा शोध लावला. (१७८१) ४. इंडोनेशिया आणि नेदरलँड यांनी आपले राजनैतिक संबंध पुन्हा प्रस्थापित केले. (१९६३) ५. अर्जुन पुरस्कार देण्याची सुरुवात झाली. (१९६३)
couple

हो ना || HO NA || MARATHI LOVE POEMS ||

"गोष्ट फक्त एवढीच होती मला समजून सांगायचे होते आणि तुला समजून घ्यायचे न्हवते
woman looking at hot air balloons

खुदसे यु कहता यही || HINDI || POEMS ||

खुदसे यु कहता यही राह से भटके नही पाप को पुण्य से परास्त होना यही समय के चक्र में दौडती ये जिंदगी भटके रास्तों पर मंजीले मिलती नहीं
श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||

श्रीगोपालद्वादशनाम स्तोत्रम् || Devotional ||

शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः । अनंतस्याप्रमेयस्य नामद्वादशं स्तवम् ॥ १ ॥ अर्जुनाय पुरा गीतं गोपालेन महात्मनः । द्वारकायां प्रार्थयते यशोदायाश्र्च संनिधौ ॥ २ ॥

© 2022 - ALL RIGHTS RESERVED
facebook twitter youtube instagram pinterest