पुरा दाशरथी रामः कृतोद्वाहः सबान्धवः ।
गच्छन् अयोध्यां राजेन्द्रः पितृमातृसुहृद्धतः ॥ १॥
ददर्श यान्तं मार्गेण क्षत्रियान्तकरं विभुम् ।
रामं तं भार्गवं दृष्टवाभितस्तुष्टाव राघवः ।
रामः श्रीमान्महाविष्णुरिति नामसहस्रतः ॥ २॥
अहं त्वत्तः परं राम विचरामि स्वलीलया ।
इत्युक्तवन्तमभ्यर्च प्रणिपत्य कृतान्जलिः ॥ ३॥
श्री राघव उवाच
यन्नामग्रहणाज्जन्तुः प्राप्नुयात्र भवापदम् ।
यस्य पादार्चनात्सिद्धिः स्वेप्सिता नौमि भार्गवम् ॥ ४॥
निह्स्पृहो यः सदा देवो भूम्यां वसति माधवः ।
आत्मबोधोदधिं स्वच्छं योगिनं नौमि भार्गवम् ॥ ५॥
यस्मादेतज्जगत् सर्वं जायते यत्र लीलया ।
स्थितिं प्राप्नोति देवेशं जामदग्न्यं नमाम्यहम् ॥ ६॥
यस्य भ्रूभङ्गमात्रेण ब्रह्माद्याः सकलाः सुराः ।
शतवारं भवन्यत्र भवन्ति न भवन्ति च ॥ ७॥
तप उग्रं चचारादौ यमुद्दिश्य च रेणुका ।
आद्या शक्तिर्महादेवी रामं तं प्रणमाम्यहम् ॥ ८॥
अथ विनियोगः
ॐ अस्य श्रीजामदग्न्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्री राम ऋषिः ।
जामदग्न्यः परमात्मा देवता ।
अनुष्टुप् छन्दः । श्रीमदविनाशिरामप्रीत्यर्थम्
चतुर्विधपुरुषार्थसिद्ध्यर्थं जपे विनियोगः ॥
अथ करन्यासः
ॐ ह्रां गोविन्दात्मने अन्गुष्ठाभ्यां नमः ।
ॐ ह्रीं महीधरात्मने तर्जनीभ्यां नमः ।
ॐ ह्रूं हृषीकेशात्मने मध्यमाभ्यां नमः ।
ॐ ह्रैं त्रिविक्रमात्मन्ने अनामिकाभ्यां नमः ।
ॐ ह्रौं विष्णवात्मने कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः माधवात्मने करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयन्यासः
ॐ ह्रां गोविन्दात्मने हृदयाय नमः ।
ॐ महीधरात्मने शिरसे स्वाहा ।
ॐ ह्रौं हृषीकेशात्मने शिखायै वशट् ।
ॐ ह्रैं त्रिविक्रमात्मने कवचाय हुम् ।
ॐ ह्रौं विष्णवात्मने नेत्रत्रयाय वौशट् ।
ॐ ह्रः माधवात्मने अस्त्राय फट् ।
अथ ध्यानम्
शुद्धजाम्बूनदनिभं ब्रह्माविष्णुशिवात्मकम् ।
सर्वाभरणसंयुक्तं कृष्णाजीनाधरं विभुम् ॥ ९॥
बाणचापौ च परशुमभयं च चतुर्भुजैः ।
प्रकोष्ठशोभिरुदाक्षैर्दधानं भृगुनन्दनम् ॥ १०॥
हेमयज्ञोपवीतं च स्निग्धस्मितमुखाम्बुजम् ।
दर्भाञ्जितकरं देवं क्षत्रियक्षयदीक्षितम् ॥ ११॥
श्रीवत्सवक्षसं रामं ध्यायेद्वै ब्रह्मचारिणम् ।
हृत्पुन्डरीकमध्यस्थं सनकाद्यैरभिष्टुतम् ॥ १२॥
सहस्रमिव सूर्याणामेकीभूय पुरःस्थितम् ।
तपसामिव सन्मूर्तिं भृगुवंशतपस्विनम् ॥ १३॥
चूडाचुम्बितकङ्कपत्रमभिस्तूणीद्वयपृष्ठतो ।
भस्मस्निग्धपवित्रलाञ्छनवपुर्धत्ते त्वचं रौरवीम् ॥ १४॥
मौञ्ज्या मेखलया नियन्त्रितमधो वासस्च माञ्जिष्ठकम् ।
पाणौ कार्मुकमक्षसूत्रवलयं दण्डं पा पैप्पलः ॥ १५॥
रेणुकाहृदयानन्दं भृगुवंशतपस्विनम् ।
क्षत्रियाणामन्तकं पूर्णं जामदग्न्यं नमाम्यहम् ॥ १६॥
अव्यक्तव्यक्तरूपाय निर्गुणाय गुणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ १७॥
श्री परशुराम द्वादश नामानि
हरिः परशुधारी च रामः च भृगुनन्दनः ।
एकवीरात्मजो विष्णुः जामदग्न्यः प्रतापवान् ॥ १८॥
सहयाद्रिवासी वीरः च क्षत्रजित्पृथिवीपतिः ।
इति द्वादशनामानि भार्गवस्य महात्मनः ।
यस्त्रिकाले पठेन्नित्यं सर्वत्र विजयी भवेत् ॥ १९॥
॥ अथ श्री परशुराम सहस्रनाम ॥
ॐ रामः श्रीमान्महाविष्णुर्भार्गवो जमदग्निजः ।
तत्त्वरूपी परं ब्रह्म शाश्वतः सर्वशक्तिधृक् ॥ १॥
वरेण्यो वरदः सर्वसिद्धिदः कञ्जलोचनः ।
राजेन्द्रश्च सदाचारो जामदग्न्यः परात्परः ॥ २॥
परमार्थैकनिरतो जितामित्रो जनार्दनः ।
ऋषिप्रवरवन्द्यश्च दान्तः शत्रुविनाशनः ॥ ३॥
सर्वकर्मा पवित्रश्च च अदीनो दीनसाधकः ।
अभिवाद्यो महावीरस्तपस्वी नियमप्रियः ॥ ४॥
स्वयम्भूः सर्वरूपश्च सर्वात्मा सर्वदृक्प्रभुः ।
ईशानः सर्वदेवादिर्वरीयान्सर्वगोऽच्युतः ॥ ५॥
सर्वज्ञः सर्ववेदादि शरण्यः परमेश्वरः ।
ज्ञानभाव्योऽपरिछेद्यः शुचिर्वाग्मी प्रतापवान् ॥ ६॥
जितक्रोधो गुडाकेशो द्युतिमानरिमर्दनः ।
रेणुकातनयः साक्षात्दजितोऽव्यय एव च ॥ ७॥
विपुलांसो महोरस्कोऽतीन्द्रो वन्द्यो दयानिधिः ।
अनादिर्भगवानिन्द्रः सर्वलोकारिमर्दनः ॥ ८॥
सत्यः सत्यव्रतः सत्यसन्धः परमधार्मिकः ।
लोकात्मा लोककृल्लोकवन्द्यः सर्वमयो निधिः ॥ ९॥
वश्यो दया सुधीर्गोप्ता दक्षः सर्वैकपावनः ।
ब्रह्मण्यो ब्रह्मचारी च ब्रह्म ब्रह्मप्रकाशकः ॥ १०॥
सुदरोऽजिनवासाः च ब्रह्मसूत्रधरः समः ।
सौम्यो महर्शिः शान्तश्च मौञ्जीभृद्दन्डधारकः ॥ ११॥
कोदन्डी सर्वजिच्छत्रुदर्पहा पुण्यवर्धनः ।
कविर्ब्रह्मर्शीर्वरदः कमन्डलुधरः कृती ॥ १२॥
महोदारोऽतुलोभाव्यो जितषड्वर्गमन्डलः ।
कान्तः पुण्यः सुकीर्तिश्च द्विभुजस्चातिपुरुशः ॥ १३॥
अकल्मशो दुराराध्यः सर्वावासः कृतागमः ।
वीर्यवान् स्मितभाशी च निवृत्तात्मा पुनर्वसुः ॥ १४॥
आध्यात्मयोगकुशलः सर्वायुधविशारदः ।
यज्ञस्वरूपी यज्ञेशो यज्ञपालः सनातनः ॥ १५॥
घनश्यामः स्मृतिः शूरो जरामरणवर्जितः ।
धीरोदात्तः सुरूपश्च सर्वतीर्थमयो विधिः ॥ १६॥
वर्णी वर्णाश्रमगुरुः सर्वजित्पुरुशोऽव्ययः ।
शिवशिक्षापरो युक्तः परमात्मा परायणः ॥ १७॥
प्रमाणरूपो दुर्ज्ञेयः पूर्णः क्रूरः कृतुर्विभुः ।
आनन्दोऽथ गुणश्रेष्ठोऽनन्तदृष्टीर्गुणाकरः ॥ १८॥
धनुर्धरो धनुर्वेदः सच्चिदानन्दविग्रहः ।
जनेश्वरोऽविनीतात्मा महाकायस्तपस्विराट् ॥ १९॥
अखिलाद्यो विश्वकर्मा विनीतात्मा विशारदः ।
अक्षरः केशवः साक्षी मरीचिः सर्वकामदः ॥ २०॥
कल्याणः प्रकृतिः कल्पः सर्वेशः पुरुशोत्तमः ।
लोकाध्यक्षो गभीरोऽथ सर्वभक्तवरप्रदः ॥ २१॥
ज्योतिरानन्दरूपश्च वह्नीरक्षय आश्रमी ।
भूर्भुवःस्वस्तपोमूर्ती रविः परशुधृक् स्वराट् ॥ २२॥
बहुश्रुतः सत्यवादी भ्राजिष्णुः सहनो बलः ।
सुखदः कारनं भोक्ता भवबन्ध विमोक्षकृत् ॥ २३॥
संसारतारको नेता सर्वदुःखविमोक्षकृत् ।
देवचूडामणिः कुन्दः सुतपा ब्रह्मवर्धनः ॥ २४॥
नित्योऽनियतकल्याणः शुद्धात्माथ पुरातनः ।
दुःस्वप्ननाशनो नीतिः किरीटीस्कन्ददर्पहृत् ॥ २५॥
अर्जुनप्राणहा वीरः सहस्रभुजजितद्धारीः ।
क्षत्रियान्तकरः शूरः क्षितिभारकरान्तकृत् ॥ २६॥
परश्वधधरो धन्वी रेणुकावाक्यतत्परः ।
वीरहा विशमो वीरः पितृवाक्यपरायणः ॥ २७॥
मातृप्राणद ईशश्च धर्मतत्त्वविशारदः ।
पितृक्रोधहरः क्रोधः सप्तजिह्वसमप्रभः ॥ २८॥
स्वभावभद्रः शत्रुघ्नः स्थाणुः शम्भुश्च केशवः ।
स्थविष्ठः स्थविरो बालः सूक्ष्मो लक्ष्यद्युतिर्महान् ॥ २९॥
ब्रह्मचारी विनीतात्मा रुद्राक्षवलयः सुधीः ।
अक्षकर्णः सहस्रांशुर्दीप्तः कैवल्यतत्परः ॥ ३०॥
आदित्यः कालरुद्रश्च कालचक्र प्रवर्तकः ।
कवची कुन्डली खड्गी चक्री भीम पराक्रमः ॥ ३१॥
मृत्युञ्जयो वीरसिंहो जगदात्मा जगत्गुरुः ।
अमृत्युः जन्मरहितः कालज्ञानी महापटुः ॥ ३२॥
निष्कलङ्को गुणग्रामोऽनिर्विण्णः स्मररूपधृक् ।
अनिर्वेद्यः शतावर्तो दण्डो दमयिता दमः ॥ ३३॥
प्रधानस् तारको धीमांस् तपस्वी भूतसारथिः ।
अहः संवत्सरो योगी संवत्सरकरो द्विजः ॥ ३४॥
शाश्वतो लोकनाथश्च शाखी दण्डी बली जटी ।
कालयोगी महानन्दः तिग्ममन्युः सुवर्चसः ॥ ३५॥
अमर्षणो मर्षणात्मा प्रशान्तात्मा हुताशनः ।
सर्ववासाः सर्वचारी सर्वाधारो विरोचनः ॥ ३६॥
हैमो हेमकरो धर्मो दुर्वासा वासवो यमः ।
उग्रतेजा महातेजा जयो विजयः कालजित् ॥ ३७॥
सह्स्रहस्तो विजयो दुर्धरो यज्ञभागभुक् ।
अग्निर्ज्वाली महाज्वालस्त्वतिधूमो हुतो हविः ॥ ३८॥
स्वस्तिदः स्वस्तिभागश्च महान्भर्गपरो युवा ।
महत्पादो महाहस्तो बृहत्कायो महायशाः ॥ ३९॥
महाकटिर्महाग्रीवो महाबाहुर्महाकरः ।
महानासो महाकम्बुर्महामायः पयोनिधिः ॥ ४०।
महावक्षा महौजाश्च महाकेशो महाजनः ।
महामूर्धा महामात्रो महाकर्णो महाहनुः ॥ ४१॥
वृक्षाकारो महाकेतुर्महादम्ष्ट्रो महामुखः ।
एकवीरो महावीरो वसुदः कालपूजितः ॥ ४२॥
महामेघनिनादी च महाघोषो महाद्युतिः ।
शैवः शैवागमाचारी हैहयानां कुलान्तकः ॥ ४३॥
सर्वगुह्यमयो वज्री बहुलः कर्मसाधनः ।
कामी कपिः कामपालः कामदेवः कृतागमः ॥ ४४॥
पञ्चविंशतितत्त्वज्ञः सर्वज्ञः सर्वगोचरः ।
लोकनेता महानादः कालयोगी महाबलः ॥ ४५॥
असङ्ख्येयोऽप्रमेयात्मा वीर्यकृद्वीर्यकोविदः ।
वेदवेद्यो वियद्गोप्ता सर्वा अमर मुनीश्वरः ॥ ४६॥
सुरेशः शरणं शर्म शब्दब्रह्म सताङ्गतिः ।
निर्लेपो निष्रप्रपन्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥ ४७॥
शुद्धः पूतः शिवारम्भः सहस्रभुजजिद्ध्हरिः ।
निरवद्यपदोपाय सिद्धिदः सिद्धिसाधनः ॥ ४८॥
चतुर्भुजो महादेवो व्यूढरस्को जनेश्वरः ।
द्युतिमणिस्तरणिर्धन्यः कार्तवीर्य बलापहा ॥ ४९॥
लक्ष्मणाग्रजवन्द्यश्च नरो नारायणः प्रियः ।
एकज्योतिर्निरातञ्को मत्स्यरूपी जनप्रियः ॥ ५०॥
सुप्रीतः सुमुखः सूक्ष्मः कूर्मो वाराहकस्तथा ।
व्यापको नारसिंहश्च बलजिन्मधुसूदनः ॥ ५१॥
अपराजितः सर्वसहो भूषणो भूतवाहनः ।
निवृत्तः संवृत्तः शिल्पी क्षुद्रहा नित्यसुन्दरः ॥ ५२॥
स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ।
प्रशान्तबुद्धिरक्षुद्रः सर्वसत्त्वावलम्बनः ॥ ५३॥
परमार्थगुरुर्देवो माली संसारसारथिः ।
रसो रसज्ञः सारज्ञः कङ्कणीकृतवासुकिः ॥ ५४॥
कृष्णः कृष्णस्तुतो धीरो मायातीतो विमत्सरः ।
महेश्वरो महीभर्ता शाकल्यः शर्वरीपतिः ॥ ५५॥
तटस्थः कर्णदीक्षादः सुराध्यक्षः सुरारिहा ।
ध्येयोऽग्रधुर्यो धात्रीशो रुचिर्त्रिभुवनेश्वरः ॥ ५६॥
कर्माध्यक्षो निरालम्बः सर्वकाम्यः फलप्रदः ।
अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः॥ ५७॥
त्रिलोकात्मा त्रिलोकेशो जगन्नाथो जनेश्वरः ।
ब्रह्मा हंसश्च रुद्रश्च स्रष्टा हर्ता चतुर्मुखः॥ ५८॥
निर्मदो निरहन्कारो भृगुवंशोद्वहः शुभः ।
वेधा विधाता दृहिणो देवज्ञो देवचिन्तनः॥ ५९॥
कैलासशिखरवासो ब्राह्मणो ब्राह्मणप्रियः ।
अर्थोऽनर्थो महाकोषो ज्येष्ठः श्रेष्ठः शुभाकृतिः॥ ६०॥
बाणारिर्दमनो यज्वा स्निग्धप्रकृतिरग्नि यः ।
वरशीलो वरगुणः सत्यकीर्तिः कृपाकरः ॥ ६१॥
सत्त्ववान् सात्त्विको धर्मी बुद्धः कल्की सदाश्रयः ।
दर्पणो दर्पहा दर्पातीतो दृप्तः प्रवर्तकः ॥ ६२॥
अमृताशो अंऋतवपुर्वाङ्मयः सदसन्मयः ।
निधानगर्भो भूशायी कपिलो विश्वभोजनः ॥ ६३॥
प्रभविष्णुर्ग्रसिष्णुश्च चतुर्वर्गफलप्रदः ।
नारसिंहो महाभीमः शरभः कलिपावनः ॥ ६४॥
उग्रः पशुपतिर्भर्गो वैद्यः केशीनिशूदनः ।
गोविन्दो गोपतिर्गोप्ता गोपालो गोपवल्लभः ॥ ६५॥
भूतावासो गुहावासः सत्यवासः श्रुतागमः ।
निष्कङ्टकः सहस्रार्चिः स्निग्धः प्रकृति दक्षिणः ॥ ६६॥
अकम्पनू गुणग्राही सुप्रीतः प्रीतिवर्धनः ।
पद्मगर्भो महागर्भो वज्रगर्भो जलोद्भवः ॥ ६७॥
गभस्तिर्ब्रह्मकृद्ब्रह्म राजराजः स्वयम्भुवः ।
सेनानीरग्रणी साधुर्बलस्तालिकरो महान् ॥ ६८॥
पृथिवी वायुरापश्च तेजः खं बहुलोचनः ।
सहस्रमूर्द्धा देवेन्द्रः सर्वगुह्यमयो गुरुः ॥ ६९॥
अविनाशी सुखारामस्त्रिलोकी प्राणधारकः ।
निद्रारूपं क्षमा तन्द्रा धृतिर्मेधा स्वधा रविः ॥ ७०॥
होता नेता शिवस्त्राता सप्तजिह्वो विशुद्धपात् ।
स्वाहा हव्यश्च कव्यश्च शतघ्नी शतपाशधृक् ॥ ७१॥
आरोहश्च निरोहश्च तीर्थः तीर्थकरो हरः ।
चराचरात्मा सूक्ष्मस्तु विवस्वान् सवितामृतम् ॥ ७२॥
तुष्टीः पुष्टीः कला काष्ठा मासः पक्षस्तु वासरः ।
ऋतुर्युगादिकालस्तु लिङ्गंआत्माथ शाश्वतः ॥ ७३॥
छिरञ्जीवी प्रसन्नात्मा नकुलः प्राणधारणः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ७४॥
मुक्तिर्लक्ष्मीस्तथा भुक्तिर्विरजाविरजाम्बरः ।
विश्वक्षेत्रं सदाबीजं पुण्य श्रवण कीर्तनः ॥ ७५॥
भिक्षुर्भैक्ष्यं गृहं दारा यजमानश्च याचकः ।
पक्षी च पक्षवाहश्च मनोवेगो निशाचरः ॥ ७६॥
गजहा दैत्यहा नाकः पुरुभूउतः पुरुष्टुतः ।
बान्धवो बन्धुवर्गश्च पिता माता सखा सुतः ॥ ७७॥
गायत्री वल्लभः प्रांशुरमान्धाता भूतभावनः ।
सिद्धार्थकारी सर्वार्थदश्छन्दो व्याकरण श्रुतिः ॥ ७८॥
स्मृतिर्गाथोपशान्तिश्च पुराणः प्राणचञ्चुरः ।
वामनश्च जगत्कालः सकृतश्च युगाधिपः ॥ ७९॥
उद्गीथः प्रणवो भानुः स्कन्दो वैश्रवणस्तथा ।
अन्तरात्मा हृशीकेशः पद्मनाभः स्तुतिप्रियः ॥ ८०॥
परश्वधायुधः शाखी सिंहगः सिंहवाहनः ।
सिंहनादः सिंहदम्ष्ट्रो नगो मन्दरधृक्सरः ॥ ८१॥
सह्याचलनिवासी च महेन्द्रकृतसंश्रयः ।
मनोबुद्धिर् अहन्कारः कमलानन्दवर्धनः ॥ ८२॥
सनातनतमः स्रग्वी गदी शन्खी रथाङ्गभृत् ।
निरीहो निर्विकल्पश्च समर्थोऽनर्थनाशनः ॥ ८३॥
अकायो भक्तकायश्च माधवोऽथ सुरार्चितः ।
योद्धा जेता महावीर्यः शङ्करः सन्ततः स्तुतः ॥ ८४॥
विश्वेश्वरो विश्वमूर्तिर्विश्वरामोऽथ विश्वकृत् ।
आजानुबाहुः सुलभः परं ज्योतिः सनातनः ॥ ८५॥
वैकुण्ठः पुण्डरीकाक्षः सर्वभूताशय स्थितः ।
सहस्रशीर्शा पुरुशः सहस्राक्षः सहस्रपात् ॥ ८६॥
ऊर्ध्वरेताः ऊर्ध्वलिङ्गः प्रवरो वरदो वरः ।
उन्मत्तवेशः प्रच्छन्नः सप्तद्वीपमहीप्रदः ॥ ८७॥
द्विजधर्मप्रतिष्ठाता वेदात्मा वेदकृच्छ्रयः ।
नित्यः सम्पूर्णकामाश्च सर्वज्ञः कुशलागमः ॥ ८८॥
कृपापीयूषजलधिर्धाता कर्ता परात्परः ।
अचलो निर्मलस्तृप्तः स्वे महिम्नि प्रतिष्ठितः ॥ ८९॥
असहायः सहायश्च जगद्धेतुर कारणः ।
मोक्षदः कीर्तिश्चैव प्रेरकः कीर्तिनायकः ॥ ९०॥
अधर्मं शत्रुरक्षोभ्यो वामदेवो महाबलः ।
विश्ववीर्यो महावीर्यो श्रीनिवासः सतां गतिः ॥ ९१॥
स्वर्णवर्णो वराङ्गश्च सद्योगी च द्विजोत्तमः ।
नक्षत्रमाली सुरभिर्विमलो विश्वपावनः ॥ ९२॥
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।
निदाघस्तपनो मेघो नभो योनिः पराशरः ॥ ९३॥
सुखानिलः सुनिष्पन्नः शिशिरो नरवाहनः ।
श्रीगर्भः कारणं जप्यो दुर्गः सत्यपराक्रमः ॥ ९४॥
आत्मभूरनिरुद्धश्च दत्तत्रेयस्त्रिविक्रमः ।
जमदग्निः बलनिधिः पुलस्त्यः पुलहोऽनिगराः ॥ ९५॥
वर्णी वर्णगुरुस्चण्डः कल्पवृक्षः कलाधरः ।
महेन्द्रो दुर्भरः सिद्धो योगाचार्यो बृहस्पतिः ॥ ९६॥
निराकारो विशुद्धश्च व्याधिहर्ता निरामयः ।
अमोघोऽनिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९७॥
स्वयञ्ज्योतिर्गुरूत्तमः सुप्रसादोऽचलस्तथा ।
चन्द्रः सूर्यः शनिः केतुर्भूमिजः सोमनन्दनः ॥ ९८॥
भृगुर्महातपा दीर्घतपा सिद्धो महागुरुः ।
मन्त्री मन्त्रयिता मन्त्रो वाग्मी वसुमनाः स्थिरः ॥ ९९॥
अद्रिरद्रिशयो शम्भुर्माङ्गल्यो मङ्गलोवृतः ।
जयस्तम्भो जगत्स्तम्भो बहुरूपो गुणोत्तमः ॥ १००॥
सर्वदेवमयोऽचिन्त्यो देवात्मा विरूपधृक् ।
चतुर्वेदस्चतुर्भावस्चतुरः चतुरप्रियः ॥ १०१॥
आद्यन्तशून्यो वैकुण्ठः कर्मसाक्षी फलप्रदः ।
दृढायुधः स्कन्दगुरुः परमेष्ठीपरायणः ॥ १०२॥
कुबेरबन्धुः श्रीकण्ठो देवेशः सूर्यतापनः ।
अलुब्धः सर्वशास्त्रज्ञः शास्त्रार्थः परमः पुमान् ॥ १०३॥
अग्न्यास्यः पृथिवीपादो द्विमूर्धा दिक्ष्रुतिः परः ।
सोमान्तःकरणो ब्रह्ममुखः क्षत्रभुजस्तथा ॥ १०४॥
वैश्योरू शूद्रपादस्तु नदी सर्वाङ्ग सन्धिकः ।
जीमूतकेशोऽब्धिकुक्षिस्तु वैकुन्ठो विष्टरश्रवाः ॥ १०५॥
क्षेत्रज्ञः तमसः पारी भृगुवंशोद्भवोऽवनिः ।
आत्मयोनी रेणुकेयो महादेवो गुरुः सुरः ॥ १०६॥
Eको नैकोऽक्षरः श्रीशः श्रीपतिर्दुःखभेषजम् ।
हृशीकेशोऽथ भगवान सर्वात्मा विश्वपावनः ॥ १०७॥
विश्वकर्मापवर्गोऽथ लम्बोदरशरीरधृक् ।
अक्रोधोऽद्रोह मोहश्च सर्वतोऽनन्तधृक्तथा ॥ १०८॥
कैवल्यदीपः कैवल्यः साक्षी चेताः विभावसुः ।
एकवीरात्मजो भद्रोऽभद्रहा कैटभार्दनः ॥ १०९॥
विबुधोऽग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।
शिवध्यानरतो दिव्यो नित्ययोगी जितेन्द्रियः ॥ ११०॥
कर्मसत्यं व्रतञ्चैव भक्तानुग्रहकृद्धरिः ।
सर्गस्थित्यन्तकृत् रामो विद्याराशिः गुरूत्तमः ॥ १११॥
रेणुकाप्राणलिङ्गं च भृगुवंश्यः शतक्रतुः ।
श्रुतिमानेकबन्धुश्च शान्तभद्रः समञ्जसः ॥ ११२॥
आध्यात्मविद्यासारश्च कालभक्षो विशृङ्खलः ।
राजेन्द्रो भूपतिर्योगी निर्मायो निर्गुणो गुणी ॥ ११३॥
हिरण्मयः पुराणश्च बलभद्रो जगत्प्रदः ।
वेदवेदाङ्गपारज्ञः सर्वकर्मा महेश्वरः ॥ ११४॥
फलश्रुतिः
एवं नाम्नां सहस्रेण तुष्टाव भृगुवंशजम् ।
श्रीरामः पूजयामास प्रणिपातपुरःसरम् ॥ १॥
कोटिसूर्यप्रतीकाशो जटामुकुटभूषितः ।
वेदवेदाङ्गपारज्ञः स्वधर्मनिरतः कविः ॥ २॥
ज्वालामालावृतो धन्वी तुष्टः प्राह रघूत्तमम् ।
सर्वैश्वर्यसमायुक्तं तुभ्यं प्रणति रघूत्तमम् ॥ ३॥
स्वतेजो निर्गतं तस्मात् प्राविशद् राघवं ततः ।
यदा विनिर्गतं तेजः ब्रह्माद्याः सकलाः सुराः ॥ ४॥
चेलुश्च ब्रह्मसदनं च कम्पे च वसुन्धरा ।
ददाह भार्गवं तेजः प्रान्ते वै शतयोजनाम् ॥ ५॥
अधस्तादूर्ध्वतश्चैव हाहेति कृतवाञ्जनः ।
तदा प्राह महायोगी प्रहसन् इव भार्गवः ॥ ६॥
श्रीभार्गव उवाच
मा भैष्ट सैनिका रामो मत्तो भिन्नो न नामतः ।
रूपेणाप्रतिमेनापि महदाश्चर्यमद्भुतम् ॥। ७॥
श्रीराम उवाच
यद्रूपं भवतो लब्धं सर्वलोकभयन्करम् ।
हितं च जगतां तेन देवानां दुःखशातनम् ॥ ८॥
जनार्दनकरोम्यद्य विष्णो भृगुकुलोद्वः ।
आशीषो देहि विप्रेन्द्र भार्गवस्तदनन्तरम् ॥ ९॥
उवाचाशीर्वचो योगी राघवाय महात्मने ।
परं प्रहर्षमापन्नो भगवान राममब्रवीत् ॥ १०॥
श्रीभार्गव उवाच
धर्मे दृढत्वं युधि शत्रुघातो यशस्तथाद्यं परमं बलञ्च ।
योगप्रियत्वं मम सन्निकर्शः सदास्तु ते राघव राघवेशः ॥ ११॥
तुष्टोऽथ राघवः प्राह मया प्रोक्तं स्तवं तव ।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥ १२॥
द्विजेश्वकोपं पितृतः प्रसादं शतं समानं उपभोगयुक्तम् ।
कुले प्रसूतिं मातृतः प्रसादं समां प्राप्तिं प्राप्नुयाच्चापि दाक्ष्यम् ॥ १३॥
प्रीतिं चाग्र्यां बान्धवानां निरोगम् ।
कुलं प्रसूतैः पौत्रवर्गैः समेतम् ॥ १४॥
अश्वमेधसहस्रेण फलं भवति तस्य वै ।
धृताद्यैः स्नापयेद्रामं स्थाल्यां वै कलशे स्थितम् ॥ १५॥
नाम्नां सहस्रेणानेन श्रद्धया भार्गवं हरिम् ।
सोऽपि यज्ञसहस्रस्य फलं भवति वाञ्छितम् ॥ १६॥
पूज्यो भवति रुद्रस्य मम चापि विशेषतः ।
तस्मान् नाम्नां सहस्रेण पूजयेत् यो जगत्गुरुम् ॥ १७॥
जपन्नाम्नां सहस्रं च स याति परमां गतिम् ।
श्रीः कीर्तिर्धीर्धृतिस्तुष्टिः सन्ततिश्च निरामया ॥ १८॥
अणिमा लघिमा प्राप्तिरैश्वर्याद्याश्च च सिद्धयः ।
सर्वभूतसुहृत्वं च लोके वृद्धीः परामतिः ॥ १९॥
भवेत्प्रातस्च मध्यान्हे सायं च जगतो हरेः ।
नामानि ध्यायतो राम सान्निध्यं च हरेर्भवेत् ॥ २०॥
अयने विषुवे चैव जपन्त्वालिख्य पुस्तकम् ।
दद्याद्वै यो वैष्णवेभ्यो नष्टबन्धो न जायते ॥ २१॥
न भवेच्च कुले तस्य कश्चिल्लक्ष्मीविवर्जितः ।
वरदो भार्गवस्तस्य लभते च सतां गतिम् ॥ २२॥
॥ इति श्री अग्निपुराणे दाशरथिरामप्रोक्तं श्रीपरशुरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥