चिदम्बरस्य चिन्ता नो जाड्यं हित्वा व्यदर्शयत् ।
सर्वव्यापकतां तच्च चिन्तनीयं चिदम्बरम् ॥ १ ॥
उदयास्तमया भावा सती चित्स्वप्रभाद्वया ।
अम्बराभा सुखा तच्च चिन्तनीयं चिदम्बरम् ॥ २ ॥
सुखं नित्यं निरुत्कर्ष भूमैव निरुपाधिकम् ।
स्वरुपमेव यत्तच्च चिन्तनीयं चिदम्बरम् ॥ ३ ॥
पायादम्बरलिंगं नो यच्चिदम्बरनामकम् ।
शेषशायिप्रभृतिपुंदोषहारिसुरावृतम् ॥ ४ ॥
॥ इति श्रीमत् परमहंस परिव्राजकाचार्य
श्रीवासुदेवानंदसरस्वती विरचितं श्रीचिदम्बरस्तुतिः संपूर्णा ॥
चिदम्बरस्तुतिः || Stuti || Devotional ||
