Share This:

चिदानन्दाकारं श्रुतिसरसारं समरसं निराधाराधारं भवजलधिपारं परगुणम् ।
रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ १ ॥

महाम्भोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम् ।
मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ २ ॥

धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरै- र्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् ।
मनोमानामेयं सपदि हृदि नेयं नवतनुं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ३ ॥

महामाया जालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशिमुखम् ।
कलातीतं कालं गतिहतमरालं मुररिपुं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ४ ॥

नभोबिम्बस्फीतं निगमगणगीतं समगतिं सुरौघै: सम्प्रीतं दितिजविपरीतं पुरिशयम् ।
गिरां मार्गातीतं स्वदितनवनीतं नयकरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ५ ॥

परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् ।
खगेशं नागेशं निखिलभुवनेशं नगधरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ६ ॥

रमाकान्तं कान्तं भवभयभयान्तं भवसुखं दुराशान्तं शान्तं निखिलहृदि भान्तम भुवनपम् ।
विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ७ ॥

जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम् ।
स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ८ ॥

गदापाणेरेतददुरितदलनं दुःखशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् ।
स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनः परं विष्णोः स्थानं व्रजति खलु वैकुण्ठभुवनम् ॥ ९ ॥

॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं गोविन्दाष्टकं सम्पूर्णम् ॥

[ajax_load_more id="8250163382" container_type="div" post_type="post" placeholder="true"]