श्रीगणेशाय नमः ॥
आचम्य प्राणायामं कृत्वा ।
दक्षिणहस्ते वक्रतुंडाय नमः। वामहस्ते शूर्पकर्णाय नमः ।
ओष्ठे विघ्नेशाय नमः । अधरोष्ठे चिंतामणयेनमः ।
संपुटे गजाननाय नमः । दक्षिणपादे लंबोदराय नमः ।
वामपादे एकदंताय नमः । शिरसि एकदंताय नमः ।
चिबुके ब्रह्मणस्पतये नमः ।
दक्षिणनासिकायां विनायकाय नमः ।
वामनासिकायां ज्येष्ठराजाय नमः ।
दक्षिणनेत्रे विकटाय नमः । वामनेत्रे कपिलाय नमः ।
दक्षिणकर्णे धरणीधराय नमः ।
वामकर्णे आशापूरकाय नमः । नाभौ महोदराय नमः ।
हृदये धूम्रकेतवे नमः। ललाटे मयूरेशाय नमः ।
दक्षिणबाहौ स्वानंदवासकारकाय नमः ।
वामबाहौ सच्चित्सुखधाम्ने नमः ।
इति गणेशन्यासः ।