वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः,
अशोकवन्तः करुणैकवन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥
मूलं तरोकेवलमाश्रयन्तः
पाणिद्वयं भोक्तुममत्रयन्तः ।
कन्थामपि स्त्रीमिव कुत्सयन्तः ।
कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥
देहाभिमानं परिहृत्य दूरात्
आत्मानमात्मन्यवलोकयन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥
स्वानंदभावे परितुष्टिमन्तः,
सशान्तसर्वेन्द्रियवृत्तिमन्तः
नान्तं न मध्यं न बहिः स्मरन्तः,
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥
पञ्चाक्षरं पावनमुच्चरन्तः,
पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशिनो दिक्षु परिभ्रमन्तः,
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥