अष्टावक्र उवाच
गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ॥ १ ॥
सिद्धिस्वरुप सिद्ध्यंश सिद्धिबीज परात्पर ।
सिद्धिसिद्धगणाधीश सिद्धानां गुरवे नमः ॥ २ ॥
हे वेदबीज वेदज्ञ वेदिन् वेदविदां वर ।
वेदाज्ञातोऽसि रुपेश वेदज्ञेश नमोऽस्तु ते ॥ ३ ॥
ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्र्वर ।
सर्व सर्वेश शर्वेश बीजरुप नमोऽस्तु ते ॥ ४ ॥
प्रकृते प्राकृत प्राज्ञ प्रकृतीश परात्पर ।
संसारवृक्ष तद्बीज फलरुप नमोऽस्तु ते ॥ ५ ॥
सृष्टिस्थित्यन्तबीजेश सृष्टस्थित्यन्तकारण ।
महाविराट् तरोर्बीज राधिकेश नमोऽस्तु ते ॥ ६ ॥
अहो यस्य त्रयः स्कन्धा ब्रह्मविष्णुमहेश्र्वराः ।
शाखा प्रशाखा वेदाद्यास्तपांसि कुसुमानि च ॥ ७ ॥
संसारविफला एव प्रकृत्यङ्कुरमेव च ।
तदाधार निराधार सर्वाधार नमोऽस्तु ते ॥ ८ ॥
तेजोरुप निराकार प्रत्यक्षानूहमेव च ।
सर्वाकारातिप्रत्यक्ष स्वेच्छामय नमोऽस्तु ते ॥ ९ ॥
॥ इति श्रीब्रह्मवैवर्ते अष्टावक्रकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥
